SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ८८ ॥ मिति प्रक्रमः, अयमत्र भावार्थः - पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बुद्धिभिः परिहारो विधेयः, पठ्यते च - 'नाइवेलं मुणी गच्छे, सुच्चा णं जिणसासणं' तत्र वेला - स्वाध्यायादिसमयात्मिका ताम| तिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः' तपखी न 'गच्छेत्' स्थानान्तरमभिसर्पेत्, 'सोचे 'ति श्रुत्वा णमिति वाक्यालङ्कारे 'जिनशासनं' जिनागमम् - अन्यो जीवोऽन्यश्च देहस्तीत्रतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यच्च ण मे णिवारणं अस्थि, छवित्ताणं न विज्जइ । अहं तु अग्गिं सेवामि, इइ भिक्खू न चिंतए ॥७॥ (सूत्रम् ) व्याख्यान 'मे' मम नितरां वार्यते - निषिध्यतेऽनेन शीतवातादीति निवारणं - सौधादि 'अस्ति' विद्यते, तथा छविः - त्वक् त्रायते - शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं - वस्त्रकम्बलादि न विद्यते, वृद्धास्तु निवारणं-वस्त्रादि तथा छविः - त्वक् त्राणं न विद्यते न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अतः 'अह' मित्यात्मनिर्देशः तुः पुनरर्थः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्निं सेवेयुः ?, अहं तु तदभावाद - त्राणः तत्किमन्यत्करोमीत्यग्निं सेवे 'इतीत्येवं 'भिक्षुः' यतिः 'न चिन्तयेत् ' न ध्यायेत्, चिन्तानिषेधे च सेवनं दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ इदानीं लयनद्वारं, तत्र च ' नातिवेलं मुनिर्गच्छेदि त्यादिसूत्रावयवसू| चितं दृष्टान्तमाह Jain Education International For Personal & Private Use Only परीषहा ध्ययनम् २ 11 24 11 www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy