________________
उत्तराध्य.
बृहद्वृत्तिः । ॥८४॥
इति मात्राज्ञो-नातिलौल्यतोऽतिमात्रोपयोगी, कस्येत्याह-अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरा-6 परीषहादि अनयोः समाहारेऽशर्मपानं तस्य, तथा 'अदीणमणसो' त्ति सूत्रत्वाददीनमनाः अदीनमानसो वा-अनाकुलचित्तः ध्ययनम् 'चरेत्' संयमाध्वनि यायात् , किमुक्तं भवति ?-अतिबाधितोऽपि क्षुधा नवकोटीशुद्धमप्याहारमवाप्य न लौल्यतोऽतिमात्रोपयोगी तदप्राप्तौ वा दैन्यवान् इत्येवं क्षुत्परिषयमाणा क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ सम्प्रति प्रागद्वारगाथोपक्षिप्त सूत्रस्पर्श इति त्रयोदशद्वारं व्याचिख्यासुः सूत्रस्पर्शिकनियुक्तिमाह'सुत्तफासे यत्ति । तथाकुमारए नई लेणे, सिला पंथे महल्लए । तावस पडिमा सीसे, अगणि निवेअ मुग्गरे ॥ ८७॥ वणे रामे परे भिक्खे. संथारे मल्लधारणं । अंगविजा सुए भोमे, सीसस्सागमणे इय ॥ ८८॥ व्याख्या-तत्र सूत्रस्पर्शश्चेति द्वारोवक्षेपः, कुमार इत्यादिना च तद्वर्णनं स्पष्टमेव, नवरं कुमारकादिभिः प्रत्येक द्वाविंशतेरपि परीपहाणामुदाहरणोपदर्शनं, तथाहि-'कुमारकः' क्षुल्लकः, 'लेणं'ति लयनं गुहा 'महल्लए'त्ति आर्यरक्षितपिता, सूत्रस्पर्शित्वं चास्य सूत्रसूचितोदाहरणप्रदर्शकत्वादिति किञ्चिदधिकगाथाद्वयार्थः ॥ ८७-८८ ॥ इदानीं नियुक्तिकार एव 'न छिन्देइत्यादिसूत्रावयवसूचितं कुमारकेत्यादिद्वारोपक्षिसं च क्षुत्परीषहोदाहरणमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org