SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तृतीया, पाठान्तरं 'दिगिंछापरिगते' बुभुक्षाव्याप्ते 'देहे' शरीरे सति, तपोऽस्यास्तीति अतिशायने विनिस्तपखीविकृष्टाष्टमादितपोऽनुष्ठानवान् , स च गृहस्थादिरपि स्यादत आह-'भिक्षुः' यतिः, सोऽपि कीदृक्-स्थाम-बलं तदस्य संयमविषयमस्तीति स्थामवान् ,भूम्नि प्रशंसायां वा मतुपप्रत्ययः, अयं च किमित्याह-'न छिन्द्यात्'न द्विधा विदध्यात्, खयमिति गम्यते, न छेदयेद्वा अन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं वा पचन्तं वाऽनुमन्येत, तत एव च न खयं क्रीणीयात् नापि क्रापयेत् न च परं क्रीणन्तमनुमन्येत, छेदस्य हननोपलक्षणत्वात् क्षुत्प्रपीडितोऽपि न नवकोटीशुद्धिबाधां विधत्ते इति गाथार्थः॥२॥ कालीपवंगसंकासे, किसे धमणिसंतए । मत्तन्नोऽसणपाणस्स, अदीणमणसो चरे ॥३॥ (सूत्रम् व्याख्या-काली-काकजना तस्याः पर्वाणि स्थूराणि मध्यानि च तनूनि भवन्ति ततः कालीपर्वाणीव पर्वाणिजानुकूपरादीनि येषु तानि कालीपर्वाणि, उष्ट्रमुखीवन्मध्यपदलोपी समासः, तथाविधैरङ्गैः-शरीरावयवैः सम्यक्काशते-तपःश्रिया दीप्यत इति कालीपर्वाङ्गसङ्काशः, यद्वा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वाद्वामो दग्ध इत्यादिवत् अवयवधर्मेणाप्यवयविनि व्यपदेशदर्शनाचाङ्गसन्धीनामपि कालीपर्वसदृशतायां कालीभिः सङ्काशानि-सदृशान्यङ्गानि यस्य स तथा, स हि विकृष्टतपोऽनुष्ठानतोऽपचितपिशितशोणित इत्यस्थिचर्मावशेष एवंविध एव भवति, अत एव च 'कृशः' कृशशरीरः, धमनयः-शिरास्ताभिः सन्ततो-व्याप्तो धमनिसंततः, एवंविधावस्थोऽपि मात्रां-परिमाणरूपां जानाति SHRS5554 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy