________________
उत्तराध्य.
परीषहाध्ययनम्
बृहद्ध त्तिः
८१ ॥
SANGALORERESEARCLEASEASO
व्यापिपुरुषाद्वैतनिराकरणं कृतं भवति, तत्र हि सर्वस्यैकत्वादयमाख्याताऽस्मै व्याख्येयमित्यादिविभागाभावत आख्यानस्यैवासम्भव इति, 'प्रविदिताः' प्रकर्षण-खयंसाक्षात्कारित्वलक्षणेन ज्ञाताः, अनेन बुद्धिव्यवहितार्थप|रिच्छेदवादः परिक्षिप्तो भवति, स्वयमसाक्षात्कारी हि प्रदीपहस्तान्धपुरुषवद्वयतिरिक्तबुद्धियोगोऽपि कथं कञ्चनार्थ | परिच्छेत्तुं क्षमः स्याद् ?, एवं चैतदुक्तं भवति-नान्यतः पुरुषविशेषादेतेऽवगताः, खयंसम्बुद्धत्वाद्भगवतः, नाप्यपौरुषेयागमात् , तस्यैवासम्भवाद् , अपौरुषेयत्वं ह्यागमस्य खरूपापेक्षमर्थप्रत्यायनापेक्षं वा ?, तत्र यदि खरूपापेक्षं तदा ताल्वादिकरणव्यापार विनवास्य सदोपलम्भप्रसङ्गः, न चावृतत्वात् नोपलम्भ इति वाच्यं, तस्य सर्वथा नित्यत्वे आवरणस्याकिञ्चित्करत्वात् , किञ्चिकरत्वे वा कथञ्चिदनित्यत्वप्रसङ्गाद् , अथार्थप्रत्यायनापेक्षम् , एवं कृतसङ्केता बालादयोऽपि ततोऽर्थ प्रतिपद्यरन्निति नापौरुषेयागमसम्भव इति। ते च कीदृशा इत्याह-'यानिति परीषहान् 'भिक्षुः' उक्तनिरुक्तः, 'श्रुत्वा' आकर्ण्य, गुर्वन्तिक इति गम्यते, 'ज्ञात्वा' यथावदवबुद्ध, 'जित्वा' पुनः पुनरभ्यासेन परिचितान् कृत्वा 'अभिभूय' सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षोश्चर्या-विहितक्रियासेवनं भिक्षुचर्या तया 'परिव्रजन् ।। समन्ताद्विहरन् 'स्पृष्टः' आश्लिष्टः, प्रक्रमात्परीपहरेव, 'नो' नैव 'विनिहन्येत' विविधैः प्रकारैः संयमशरीरोपघातेन विनाशं प्राप्नयात् , पठन्ति च 'भिक्खायरियाए परिवयंतो'त्ति भिक्षाचर्यायां-भिक्षाटने परिव्रजन . उदीयन्ते हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org