________________
8 तु यथाकथञ्चिद् ,गुरुविनयभीत्या गुरुपर्षदुत्थितेभ्यो वा सकाशात् , यथोच्यते-"परिसुट्टियाण पासे सुणेइ सो विणयदापरिमंसि"त्ति, यदुक्तं 'भगवता आख्यातं द्वाविंशतिः परीषहाः' सन्तीति, तत्र किं भगवता अन्यतः पुरुषविशेषाद
पौरुषेयागमात् खतो वा अमी अवगता इत्याह-श्रमणेन भगवता महावीरेण काश्यपेन 'पवेइय'त्ति सूत्रत्वात् प्रविदिताः, तत्र श्राम्यतीति श्रमणः-तपखी तेन, न तु 'ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्य चैव धर्मश्च, सहसिद्धं चतुष्टयम् ॥१॥ इतिकणादादिपरिकल्पितसदाशिववदनादिसंसिद्धेन, तस्य देहादिविरहात् तथाविधप्र-18 यत्नाभावेनाऽऽख्यानायोगाद्, उक्तं च-"वयेणं न कायजोगाभावेण य सो अणादिसुद्धस्स । गहणम्मि य नो हेतू सत्थं अत्तागमो कह णु ॥१॥" 'भगवते'ति च समग्रज्ञानैश्वर्यादिसूचकेन सर्वज्ञतागुणयोगित्वमाह, तथा च यत् कैश्चिदुच्यते-'हेयोपादेयतत्त्वस्य, साध्योपायस्य वेदकः। यःप्रमाणमसाविष्टो, न तु सर्वस्य वेदकः॥१॥' इति, तद्युदस्तं भवति, असर्वज्ञो हि न यथावत्सोपायहेयोपादेयतत्त्वविद्भवति, प्रतिप्राणि भिन्ना हि भावानामुपयोगशक्तयः, तत्र कोऽपि कस्या|पि कथमपि क्वाप्युपयोगीति कथं सोपायहेयोपादेयतत्त्ववेदनं सर्वज्ञतां विना सम्भवतीति, 'महावीरेणे' ति शक्रकतनाम्ना चरमतीर्थकरेण, 'काश्यपेन' काश्यपगोत्रेण, अनेन च नियतदेशकालकुलाभिधायिना सकलदेशकालंकला-2
१ पर्षदुत्थितानां पार्श्वे शृणोति स विनयपरिभ्रंशी । २ वचनं न काययोगाभावे न च सोऽनादिशुद्धस्य । ग्रहणे न च हेतुः शास्त्रमात्मागमः कथं नु ? ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org