________________
परीषहाध्ययनम्
बृहद्वृत्तिः ॥८ ॥
RECRUAR
उत्तराध्य.
राएण विजा मन्ता य सिझंति" अथवा-'आउसंतेणं ति भगवद्विशेषणम् , आयुष्मता भगवता, चीरजीविनेत्यर्थो, मङ्गलवचनमेतत् , यद्वा-'आयुष्मतेति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता, न तु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात्पुनरिहायातेन, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥" एवं हि अनुन्मूलितनिःशेषरागादिदोषत्वात्तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति । यदिवा-'आवसंतेणं'ति मयेत्यस्य विशेषणं, तत आङिति-मुरुदर्शितमदिया वसता, अनेन तत्त्वतो गुरुमर्यादावर्त्तित्वरूपत्वाद्गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तं च-“णाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥"अथवा 'आमुसंतेण' आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगादिना स्पृशता, अनेनैतदाह-अधिगतसमस्तशास्त्रेणापि है गुरुविश्रामणादिविनयकृत्यं न मोक्तव्यम् , उक्तं हि-"जहाँहिअग्गी जलणं नमसे, णाणाहुईमंतपयाहिसित्तं । एवाय
रियं उवचिठ्ठएज्जा, अणंतणाणोवगतोऽवि संतो॥१॥"त्ति, यद्वा-'आउसंतेणं'ति प्राकृतत्वेन तिव्यत्ययादाजुघमाणेन-श्रवणविधिमर्यादया गुरून् सेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशात् श्रोतव्यं, न
१ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथिकं गुरुकुलवासं न मुञ्चन्ति ॥१॥२ यथाऽऽहिताग्निज्वलन |नमस्यति नानाहुतिमनपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेतानन्तज्ञानोपगतोऽपि सन् ॥ १॥
॥८
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org