________________
लोए संथारंमि य परीसहा जाव उज्जुसुत्ताओ। तिण्हं सदनयाणं परीसहा होइ अत्ताणे ॥५॥ al व्याख्या-लोके संस्तारके च परीषहाः 'जाव उज्जुसुत्ताउत्ति सूत्रत्वात् ऋजुसूत्रं यावद् , अस्य च पूर्वार्द्धस्य । सूचकत्वादविशुद्धनैगमस्य मतेन लोके परीषहाः, तत्सहिष्णुयतिनिवासभूतक्षेत्रस्यापि चतुर्दशरज्ज्वात्मकलोकान
न्तरत्वात् , इत्थमपि च व्यवहारदर्शनाद्, एवमुत्तरोत्तरादिविशुद्धविशुद्धतरतद्भेदापेक्षया तिर्यग्लोकजम्बूद्वीपभरतद|क्षिणा पाटलीपुत्रोपाश्रयादिषु भावनीयं, यावदत्यन्तविशुद्धतमनगमस्य यत्रोपाश्रयैकदेशे अमीषां सोढा यतिस्तत्रामी इति, एवं व्यवहारस्थापि, लोकव्यवहारपरत्वादस्य, लोके च नेह वसति प्रोषित इति व्यवहारदर्शनात् , सङ्ग्रहस्य संस्तारके परीषहाः, स हि संगृह्णातीति सङ्ग्रह इति निरुक्तिवशात् सङ्ग्रहोपलक्षितमेवाधारं मन्यते, संस्तारक एव च यतिशरीरप्रदेशैः सङ्ग्रह्यते न पुनरुपाश्रयैकदेशादिरिति संस्तारक एवास्य परीषहाः, ऋजुसूत्रस्य तु येष्वाकाशप्रदेशेप्वात्माऽवगाढस्तेष्वेव परीषहाः, संस्तारकादिप्रदेशानां तदणुभिरेव व्याप्तत्वात् , तत्रावस्थानाभावात् , त्रयाणां शब्दनयानां परीषहो भवति आत्मनि, खात्मनि व्यवस्थितत्वात्सर्वस्य, तथाहि-सर्व वस्तु खात्मनि व्यवतिष्ठते सत्त्वाद् यथा चैतन्यं जीवे, आह–किमेवं नयैर्व्याख्या ?, निषिद्धा ह्यसौ, यदुक्तम्-'णत्थिं पुहुत्ते समोयारो'त्ति, उच्यते, दृष्टि१ नास्ति पृथक्त्वे समवतारः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org