________________
उत्तराध्य. वादोद्धृतत्वादस्य न दोषः, तथा च प्रागुक्तम्-'कम्मप्पवायपुछे' त्यादि, दृष्टिवादे हि नयैर्व्याख्येत्यत्रापि तथैवाभि- परीषहाधानमिति गाथार्थः ॥ ८५ ॥ इदानीमुद्देशादिद्वारत्रयमल्पवक्तव्यमित्येकगाथया गदितुमाह
ध्ययनम् बृहद्वृत्तिः
है उद्देसो गुरुवयणं पुच्छा सीसस्स उ मुणेयवा । निदेसो पुणिमे खलु बावीसं सुत्तफासे य ॥ ८६॥ है। ॥७९॥
व्याख्या-उद्दिश्यत इति उद्देशः, क इत्याह-'गुरुवचनं' गुरोः विवक्षितार्थसामान्याभिधायकं वचो, यथा । प्रस्तुतमेव 'इह खलु बावीसं परीसहत्ति 'पृच्छा शिष्यस्य तु' गुरूद्दिष्टार्थविशेषजिज्ञासोर्विनेयस्य, तुः पुनः प्रक्रमाद्वचनं | 'मुणितव्या ज्ञातव्या, यथा 'कयरे खलु ते बावीसं परीसहा?' इति, निर्देशश्चेति निर्देशः-पुनः इमे खलु द्वाविंशतिः, परीषहा इति गम्यते, अनेन च शिष्यप्रश्नानन्तरं गुरोर्निर्वचनं निर्देश इत्यर्थादुक्तं भवति, अत्र चैवमुदाहरणद्वारेणाभिधानं पूर्वयोरप्युक्तोदाहरणद्वयसूचनार्थ वैचित्र्यख्यापनार्थं चेति किञ्चिन्यूनगाथार्थः ॥८६॥ इत्थं 'कुत' इत्यादिद्वादशद्वारवर्णनादवसितो नामनिष्पन्ननिक्षेपः, सम्प्रति 'सूत्रस्पर्श' इति चरमद्वारस्य सूत्रालापकनिष्पन्ननिक्षेपस्य चावसरः, तच्चोभयं सूत्रे सति भवतीति सूत्रानुगमे सुत्रमुच्चारणीयं, तच्चेदम्
॥७९॥ 'सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु बावीसं परीसहा समणेण भगवया महावीरेणं । कासवेणं पवेइया जे भिक्खू सुच्चा नच्चा जिच्चा अभिभूय भिक्खायरियाए परिवयंतो पुट्ठो नो विनिहन्नेज्जा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org