________________
बृहद्वृत्तिः
उत्तराध्य. स चैतस्स पर्यायात्मकतया प्रतिसमयमन्यान्य एव भवतीति समयमेवैतन्मतेन परीषहो युक्त इति गाथार्थः ॥ ८३॥ परीपहा'वर्षाग्रतः त्रयाणां परीषह' इति यदुक्तं, तदेव दृष्टान्तेन दृढयितुमाह
ध्ययनम् कंड अभत्तच्छंदो अच्छीणं वेयणा तहा कुच्छी। कासं सासंच जरं अहिआसे सत्त वाससए॥८४॥ ॥७८ ॥ | व्याख्या-'कंडूं' कण्डूतिम्, 'अभक्तच्छन्द' भक्तारुचिरूपम् 'अक्ष्णोः ' लोचनयोः, 'वेदनां' दुःखानुभवं, सर्वत्र
द्वितीयार्थे प्रथमा, 'तथे ति समुच्चये, “कुच्छि'त्ति सुव्यत्ययात् कुक्ष्योर्वेदनां-शूलादिरूपां 'काशं श्वासं च ज्वरं' त्रयमपि प्रतीतमेव 'अध्यास्त' इति अधिसहते, सप्त वर्षशतानि यावत् । अनेन तु सनत्कुमारचक्रवत्युदाहरणं सूचितं, स हि महात्मा सनत्कुमारचक्रवर्ती शक्रप्रशंसाऽसहनसमायातामरद्वयनिवेदितशरीरविकृतिरुत्पन्नवैराग्यवासनः पटप्रान्तावलमतृणवदखिलमपि राज्यमपहायाभ्युपगतदीक्षः प्रतिक्षणमभिनवाभिनवप्रवर्द्धमानसंवेगो मधुकरवृत्त्यैव यथोपलब्धानपानोपरचितप्राणवृत्तिरनन्तरोक्तसप्तोहण्डकण्डादिवेदनाविधरितशरीरोऽपि संयमान्न मनागपि सञ्चचाल,
पुनस्तत्सत्त्वपरीक्षणायातभिषग्वेषामरोपदर्शितद्वादशांशुमालिसमाङ्गल्यवयवश्च तत्पुरतः 'पुष्विं कडाणं कम्माणं वेइत्ता' दि इत्यादि संवेगोत्पादकमागमवचः प्ररूपयन् खयमागत्य शक्रेणाभिवन्दित उपबृंहितश्चेति गाथार्थः ॥ ८४ ॥ सम्प्रति | R७८॥ |क परीषह इति क्षेत्रविषयप्रश्नप्रतिवचनमाह
१ पूर्व कृतानां कर्मणां वेदयित्वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org