SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ SAFARIAS निषेधिक्यौ च 'युगपद्' एककालं 'न वर्त्तते' न भवतः, परस्परं परिहारस्थितिलक्षणत्वादमीषां, तथाहि-न शीत-II मुष्णे न चोष्णं शीते न चर्यायां नैषेधिकी नैषेधिक्यां वा चर्येत्यतो यौगपद्यनामीषामेकत्रासम्भवानोत्कृष्टतोऽपि द्वाविंशतिरिति,आह-नषेधिकीवत्कथं शय्याऽपि न चर्यया विरुध्यते ?, उच्यते, निरोधबाधादितस्त्वङ्गनिकादेरपि तत्र सम्भवान्नैषेधिकी तु खाध्यायादीनां भूमिः, ते च प्रायः स्थिरतायामेवानुज्ञाता इति तस्या एव चर्यया विरोध इति गाथार्थः ॥ ८२॥ कालद्वारमाह5 वासग्गसो अ तिण्हं मुहुत्तमंतं च होइ उज्जुसुए । सदस्स एगसमयं परीसहो होइ नायवो ॥८३॥ व्याख्या-'वासग्गसो यत्ति आर्षत्वाद्वर्षाग्रतः, कोऽर्थः ?-वर्षलक्षणं कालपरिमाणमाश्रित्य, परीपहो भवति द इति गम्यते, चः पूरणे, 'त्रयाणां' नैगमसङ्ग्रहव्यवहारनयानां मतेन, ते ह्यनन्तरोक्तन्यायतस्तदुत्पादकं वस्त्वपि परी पहमिच्छन्ति, तचैतावत्कालस्थितिकमपि सम्भवत्येवेति, 'मुहुत्तमंतं च' इति प्राकृतत्वादन्तर्मुहूर्त पुनर्भवति, प्रक्रमात्परीषहः, ऋजुसूत्रे ऋजुश्रुते वा-विचार्यमाणे, स हि प्रागुक्तनीतितो वेदना परीषह इति वक्ति, सा चोपयोगाहै त्मिका, उपयोगश्च 'अंतुमुहुत्ताउ परं जोगुवओगा न संतीति वचनात् आन्तर्मुहूर्तिक एव, 'शब्दस्य' साम्प्रतादित्रिभेदस्य मतेनैकसमयं परीषहो भवति 'ज्ञातव्यः' अवबोद्धव्यः, स धुक्तनीतितो वेदनोपयुक्तमात्मानमेव परीषहं मनुते, १ अन्तर्मुहूर्त्तत्परतो योगोपयोगा न सन्ति । *%% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy