________________
al अरई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरकारे चरित्तमोहंमि सत्तेए ॥७५॥ |
अरईइ दुगुंछाए पुंय भयस्स चेव माणस्स। कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥७६॥ दसणमोहे दंसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खलु इक्कारस वेयणीजंमि ॥७७॥ व्याख्या-'अरतिः' इति अरतिपरीपहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः, 'अचेल' त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीपहाः, 'चरित्रमोहे चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्वादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेद-31 |स्योदयेन यत्परीषहसद्भावस्तमाह-'अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'पुंवेय'त्ति सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीपहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे 'दर्शनपरीपहः' वक्ष्यमाणरूपो, 'णियमसो'त्ति आपत्वेन नियमात् भवेद् ‘एकः' अद्वितीयः, 'शेषाः' एतदुद्धरिताः, परीपहाः पुनः एकादश 'वेदनीये' वेदनीयनाम्नि कर्मणि संभवन्तीति गाथात्रयार्थः॥७५-७६-७७ ॥ के पुनस्ते एकादशेत्याह
**************
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org