________________
प्राग्बद्धवध्यमानकर्माभावेनाऽऽत्मनः खखभावानयनाद्धेतोः अध्ययनम् 'इच्छन्ति' अभ्युपगच्छन्ति, पूर्वसूरय इति गम्यते, यद्वाऽध्यात्ममिति रूढितो मनः, तच प्रस्तावात् शुभं, तस्याऽऽनयनमध्ययनम् , आनीयते ह्यनेन शुभं चेतः, अस्मिन् उपयुक्तस्य वैराग्यभावात् , शेषं प्राग्वत् , नवरं वैराग्यभावात् कर्मणामिति क्लिष्टानामिति गाथार्थः ॥६॥ निरुक्त्यन्तरेणैतदेव व्याख्यातुमाह
अहिगम्मति व अत्था अणेण अहियं व णयणमिच्छति।अहियं वसाहु गच्छइ तम्हाअज्झयणमिच्छंति ७|| की व्याख्या-'अधिगम्यन्ते वा' परिच्छिद्यन्ते वा 'अर्था' जीवादयः अनेनाधिकं वा नयनं-प्रापणमर्थादात्मनि
ज्ञानादीनामनेन इच्छन्ति, विद्वांस इति शेषः, 'अधिकम्' अर्गलं शीघ्रतरमितियावत् , 'वा' सर्वत्र विकल्पार्थः, 'साधु'त्ति साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुः 'गच्छति' यात्यर्थान्मुक्तिम्, अनेनेत्यत्रापि योज्यते, यस्मादेवमेवं च ततः किमित्याह-तस्मादध्ययनमिच्छन्ति, निरुक्तविधिनार्थनिर्देशपरत्वाद्वाऽस्य, अयतेरेतेाऽधिपूर्वस्याध्ययनम् , इच्छन्तीति चाभिधानं सर्वत्र सूत्रार्थाबाधया व्याख्याविकल्पानां पूर्वाचार्यसम्मतत्वेनादुष्टत्वख्यापनार्थमिति गाथार्थः ॥ ७ ॥ नामाक्षीणादित्रयं प्रतीतमेवेति दृष्टान्तद्वारेण भावाक्षीणमाहजह दीवा दीवसयं पईप्पए सो य दीप्पए दीवो। दीवसमा आयरिया अप्पं च परं च दीवंति॥८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org