SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. नाम ठवणज्झयणे दवज्झयणे य भावअज्झयणे । एमेव य अज्झीणे आयज्झवणेविय तहेव ॥ ५॥ अध्ययनम् बृहद्वृत्तिः al व्याख्या 'नामं ठवणज्झयणे'त्ति प्रत्येकमध्ययनशब्दसम्बन्धानामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं च-81 स्य भिन्नक्रमत्वाद् भावाध्ययनं च, तत्र नामस्थापने गतार्थे, द्रव्याध्ययनमागमतो ज्ञातानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च पुस्तकादिन्यस्तं, भावाध्ययनमागमतो ज्ञातोपयुक्तः, नोआगमतस्तु प्रस्तुताध्ययनान्येव, आगमैकदेशत्वादेषाम् । एवं चाक्षीणमायः क्षपणाऽपि च तथैव, कोऽर्थः ?-अध्ययनवदेतान्यपि नामादिभेदभिन्नान्येव ज्ञेयानीति गाथार्थः ॥५॥ साम्प्रतं नामाध्ययनादीनि त्रीणि प्रसिद्धान्येवेति मन्यमानो नियुक्तिका निरुक्तिद्वारेण नोआगमतो भावाध्ययनं व्याख्यातुमाहअज्झप्पस्साणयणं कम्माणं अवचओ उवचियाणं । अणुवचओ व णवाणं तम्हा अज्झयणमिच्छति ॥६॥ व्याख्या-'अज्झप्पस्स'त्ति सूत्रत्वादध्यात्ममात्मनि, कोऽर्थः ?-खस्वभावे, आनीयतेऽनेनेति आनयनं प्रस्ता४ वादात्मनोऽध्ययनं, निरुक्तिविधिना चात्माकारनकारलोपः, कुत एतदित्याह-यतः 'कर्मणां' ज्ञानावरणीयादीनाम् 'अपचयः' चयापगमोऽभाव इत्यर्थः, 'उपचिताना' प्राग्वद्धानाम् 'अनुपचयश्च' अनुपचीयमानताऽनुपादानमितियावत् , 'नवानां' प्रत्यग्राणां, कोऽर्थः -प्रारबद्धानाम्, एतदुपयुक्तस्येति गम्यते, उपसंहारमाह-तस्मात् COMKILAir - dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy