SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ नन्द्यध्ययनेऽप्युक्तम्-"जस्स जेत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउबिहाए बुद्धीए उववेया तस्स तेत्तियाई पइण्णगसहस्साई" प्रकीर्णकानि चामूनि तत्कथं जिनदेशितत्वादि न विरुध्यते ?, उच्यते, तथास्थितानामेव जिनादिवचसामिह दृब्धत्वेन तद्देशितत्वाधुक्तमिति न विरोधः । बन्ध-आत्मकर्मणोरत्यन्तसंश्लेपस्तस्मिन् , मोक्षः तयोरेवाऽऽत्यन्तिकः पृथग्भावस्तस्मिंश्च कृतानि, कोऽभिप्रायः१-यथा बन्धो भवति यथा च |मोक्षस्तथा प्रदर्शकानि, तत्र बन्धे यथा-"आणाअणिद्देसकरेत्ति" मोक्षे यथा-"आणाणिद्देसकरे"त्ति, आभ्यां यथाक्रममविनयो विनयश्च प्रदर्श्यते, तत्राविनयो मिथ्यात्वाद्यविनाभूतत्वेन बन्धस्य विनयश्चान्तरपौरुषत्वेन मोक्षस्य कारणमिति तत्त्वतस्तौ यथा भवतस्तदेवोक्तं भवति, मोक्षप्राधान्येऽपि बन्धस्य प्रागुपादानमनादित्वोपदर्शनार्थं, यद्वा 'बंधे मोक्खे य त्ति' चशब्द एवकारार्थो भिन्नक्रमश्च, ततो बन्ध एव सति यो मोक्षस्तस्मिन् कृतानि, अनेनानादिमुक्तमतव्यवच्छेदश्च कृतः, तत्र हि मोक्षशब्दार्थानुपपत्तिः सकलानुष्ठानवैफल्यापत्तिश्च, किमेवं कतिचिदेव ?, नेत्याह-'पत्रिंशत्' पत्रिंशत्सङ्ख्यानि, कोऽर्थः-सर्वाणि उत्तराध्ययनानि इति गाथार्थः ॥४॥ इत्थं प्रसङ्गत उक्तरूपं संशयमपाकृत्याध्ययननिक्षेपं विनेयानुग्रहाय तत्पर्यायनिक्षेपातिदेशं चाह १ यस्य यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्ध्योपपेतास्तस्य तावन्ति प्रकीर्णकसहस्राणि । ४२ आज्ञाऽनिर्देशकरः। ३ आज्ञानिर्देशकरः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy