________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ७ ॥
व्याख्या- यथा दीपाद्दीपशतं 'प्रदीप्यते' ज्वलति सोऽपि च दीप्यते दीपो, न पुनरन्यान्यदीपोत्पत्तावपि क्षीयते, | तथा किमित्याह — दीपसमा आचार्या 'दीप्यन्ते' समस्तशास्त्रार्थविनिश्चयेन स्वयं प्रकाशन्ते 'परं च' शिष्यं 'दीप| यन्ति' शास्त्रार्थप्रकाशनशक्तियुक्तं कुर्वन्ति, इह च 'तात्स्थ्यात् तद्यपदेश' इत्याचार्यशब्देन श्रुतज्ञानमेवोक्तं, भावाक्षीणस्य प्रस्तुतत्वात्तस्यैव चाक्षयत्वसम्भवादिति गाथार्थः ॥ ८ ॥ नामाऽऽयादयस्त्रयः सुज्ञाना इति भावायं व्याचष्टे
भावे पसत्थमियरो नाणाई कोहमाइओ कमसो । आउत्ति आगमुत्ति य लाभुत्ति य हुंति एगट्ठा ॥९॥
व्याख्या- 'भावे' विचार्ये इति शेषः, प्रशस्तः मुक्तिपदप्रापकत्वेन ' इतरः' अप्रशस्तो भवनिबन्धनत्वेन, प्रक्रमादायः, किंरूपः पुनरयं द्विविधोऽपीत्याह - 'ज्ञानादिः' आदिशब्दादर्शनादिपरिग्रहः, 'कोहमाइओ'त्ति मकारस्यालाक्षणिकत्वात् क्रोधादिकः, आदिशब्दान्मानादिपरिग्रहः, 'कमसो'त्ति आर्षत्वात् क्रमतः, किमुक्तं भवति ? - प्रश स्तो ज्ञानादिः, अप्रशस्तः क्रोधादिः । इह च ज्ञानादेः क्रोधादेश्व आयत्वमायविषयत्वाद्विषयविषयिणोरभेदोपचारेण आयते तमित्याय इति कर्मसाधनत्वेन वा ज्ञानादिप्रशस्त भावायहेतुत्वाच्चाध्ययनमपि भावायः । ' तत्त्वभेदपर्यायैर्व्याख्ये 'ति पर्यायकथनमपि व्याख्याङ्गमिति पर्यायानाह - आय इत्यागम इति च लाभ इति च भवन्त्येका
Jain Education International
For Personal & Private Use Only
अध्ययनम्
१
॥ ७ ॥
www.jainelibrary.org