________________
उत्तराध्य. आह-'नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' त्रिप्रकार इति गाथार्थः ॥ ६५ ॥ परिषहात्रैविध्यमेवाह
ध्ययनम् बृहद्वृत्तिः
जाणगसरीर भविए तव्वइरित्ते य से भवे दुविहे। कम्मे नोकम्मे या कम्ममि य अणुदओ भणिओ ॥६६॥ ॥७२॥
व्याख्या-'जाणगसरीर' त्ति ज्ञायको ज्ञो वा तस्य शरीरं ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगत निषीधिकागतं वा अहो ! अमुना शरीरसमुच्छ्येणोपात्तेन परीषह इति पदं शिक्षितम् , अयं घृतघटोऽभूदितिवत्संभाव्यमानं, तथा 'भविय'त्ति शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र संबन्धात् भव्यशरीरं, तत्र भविष्यति-तेन
तेनावस्थात्मना सत्तां प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीषह इति पदं न शिक्षते एष्यति तु शिदक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीषहः, 'तवतिरित्ते य'त्ति ताभ्यां-ज्ञशरीर
भव्यशरीराभ्यां व्यतिरिक्तः-पृथग्भूतः तद्यतिरिक्तः, स च प्रकृतत्वाद् द्रव्यपरिषहो भवेत् , 'द्विविधः' द्विभेदः, कथ-IN मित्याह-क्रियते-मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निर्वर्त्यत इति कर्म तत्र-ज्ञानावरणादिरूपे, 'नोकर्मणि
च' तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हखदीर्थों मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह-कर्मणि विचार्य, | है|चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभावः, प्रक्रमात् परीषहवेदनीयकर्मणामेव, 'भणितः' उक्त इति गाथार्थः
॥६६॥ द्वितीयभेदमाह
७२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org