SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ * *SHAINSA ॥श्रीजिनाय नमः।नमः सर्वविदे । व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम्, इदानीं द्वितीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार उक्तः, स च किं खस्थावस्थैरेव समाचरितव्य उत परीषहमहासैन्यसमरसमाकुलितमनोभिरपि?, उभयावस्थैरपीति ब्रूमः । ननु तर्हि केऽमी परीषहाः ?, किंरूपाः?, किञ्चालम्बनमुररीकृत्यैतेषु सत्खपि न विनयविलङ्घनमित्याशङ्कापोहाय परिषहास्तत्खरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्यास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारस्वरूपमुपवर्णनीयं, तत्र च नामनिष्पन्ननिक्षेपस्य परीषह इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवानियुक्तिकारःमणासो परीसहाणं चउविहो दुविहो य(उ)दत्वमि । आगमनोआगमतो नोआगमओय सो तिविहो॥६५॥ | व्याख्या-नियतं निश्चितं वाऽऽसनं-नामादिरचनात्मकं क्षेपणं न्यासो-निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तातू खहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीषहास्तेषां, चत्वारो विधाःप्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनादृत्य द्रव्यपरीषहमाह'द्विविधो द्विभेदः, तुः पूरणे, भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषहः, स च 'आगमणोआगमतो' त्ति आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्त इत्यागमखरूपमतिपरिचितमिति परिहृत्य नोआगमत १ अधिकार उपवर्णने वा इत्यध्याहार्यम् । 5 %258467-% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy