________________
HARERARANA2
णोकम्ममि य तिविहो सञ्चित्ताचित्तमीसओ चेव ।भावे कम्मस्सुदओ तस्स उदाराणिमे हुंति ॥६७॥ A व्याख्या-नोकर्मणि पुनर्विचार्य, चस्य पुनरर्थत्वाव्यपरीषहः 'त्रिविधः त्रिभेदः, 'सचित्ताचित्तमीसओ'त्ति लुप्तनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाच पुंल्लिङ्गता; चः खगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीपहो गिरिनिर्झरजलादिः अचित्तद्रव्यपरीषहश्चित्रकचूर्णादिर्मिश्रद्रव्यपरीषहो गुडाकादि, त्रयस्यापि कर्माभावरूपत्वात् क्षुत्परीषहजनकत्वाच्च, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीषह इति खधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्दस्यैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, निषेधवाचित्वे तु तदभावरूपः परीषहवेदनीयस्य कर्मण उदयः, तथा चाह-'भावे कम्मस्स उदओ' त्ति कर्मणइति परीपहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयकवचननिर्देशः 'तस्य च' भावपरीषहस्य 'द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ ६७ ॥ तान्येवाह-. कत्तो कस्सै व दैवे समोऔर अहिआंस नए य वत्त॑णा कालो। खित्तुद्देसे पुच्छा निदेसे सुत्तफासे य॥१८॥ व्याख्या-'कुत' इति कुतोऽङ्गादेरिदमुद्धृतं १, 'कस्य' इति कस्य संयतादेरमी परीषहाः२, 'द्रव्यम्' इति किममी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org