________________
COMHISUALANKAR
स्थापकं हेतुमुत्पश्यामः, अथापि स्याद्-असङ्खयेयत्वेऽप्येषां सकलनयसङ्घाहिभिर्नयैर्विचारः, ननु तेषामप्यनेकविधत्वात् 3 पुनरनवस्थैव, तथाहि-पूर्वविद्भिः सकलनयसङ्ग्राहीणि सप्त नयशतानि विहितानि, यत् प्रतिबद्धं सप्तशतारं नयचकाध्ययनमासीत् , तत्सङ्ग्राहिणः पुनर्झदश विध्यादयो, यत्रतिपादकमिदानीमपि नयचक्रमास्ते, तत्सङ्ग्राहिणोऽपि सप्त नैगमादयो, यावत् तत्सङ्ग्रहेऽपि द्वयमेवेति सङ्ग्राहिनयानामपि तेषामनेकविधत्वात् पूर्ववदनवस्थैव, अथ संक्षिप्तरुचित्वाददंयुगीनजनानामनेकविधत्वेऽपि सङ्घाहिनयानां द्वयेनैव विचारोन शेषैरिति नानवस्था, ननु द्वयमपि द्रव्यपर्यायार्थशब्दव्यवहारनिश्चयज्ञानक्रियादिभेदेनानेकधैवेति तत्रापि स एवानवस्थालक्षणो दोष इति, अत्र प्रतिवि| धीयते-इहाध्ययने विनयो विचार्यते, स च मुक्तिफलः, ततो यदेवास्य मुक्तिप्राप्तिनिबन्धनं रूपं तदेव विचारणीयं, ४ तच ज्ञानक्रियात्मकमेवेति ज्ञानक्रियानयाभ्यामेव विचारो न पुनरन्यैरिति । तत्र ज्ञाननय आह-ज्ञानमेव मुक्त्यवासिनिबन्धनं, तथा च तल्लक्षणाभिधायिनी नियुक्तिगाथा-"णायंमि गिण्हियाचे अगिण्हियवंमि चेव अत्थंमि । जइयत्वमेव इइ जो उवएसो सो णओ नाम ॥१॥" अस्याश्चार्थः-'ज्ञाते' बुद्धे 'गिण्हियधि'त्ति गृह्यते-उपादीयते कार्यार्थिभिरिति ग्रहीतव्यः, कार्यसाधक इत्युक्तं भवति, उक्तं हि- गेज्झो सो कजसाहतो होई' तस्मिन् , अग्रहीतव्यः-तद्विपरीतः, स च हेय उपेक्षणीयश्च, उभयोरपि कार्यासाधकत्वात् , तमिंश्च, 'चः' समुच्चये, ‘एवं' इति
१ ग्राह्यः स ( यः) कार्यसाधको भवति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org