________________
--
-SAMSU
उत्तराध्य.
क इहोपयोगः १, उच्यते, उपक्रमेणोपक्रान्तस्य निक्षेपेण च यथासम्भवं निक्षिप्तस्य अनुगमेनानुगतस्य चास्यैवाध्यय- अध्ययनम्
नस्य विचारणा, उक्तं च-"संबंधोवक्कमतो समीवमाणीय णत्वणिक्खेवं । सत्थं तओऽणुगम्मइ णएहि णाणाविबृहद्भुत्तिः
हाणेहिं ॥१॥" अस्तु नयैर्विचारणा, साऽपि प्रतिसूत्रं समस्ताध्ययनस्य वा १, न तावत् प्रतिसूत्रं, प्रतिसूत्रं नयावतारनिषेधस्यात्रैवाभिधानात्, अथ समस्ताध्ययनस्य, तदपि न, सूत्रव्यतिरिक्तस्य तस्यासम्भवाद्, उच्यते, यदुक्तंप्रतिसूत्रं नयावतारनिषेध इति, तदित्थमेव, यत्तु सूत्रव्यतिरिक्तस्याध्ययनस्यैवासम्भव इति, तदसत्, कथञ्चित् समुदायस्य समुदायिभ्योऽन्यत्वात् , शिबिकावाहकपुरुषसमूहवत् , इतरथा प्रत्येकावस्थाविलक्षणकार्यानुदयप्रसङ्गाद्,
अस्त्वेवं तथाऽपि किमस्य समस्तनयैर्विचार उत कियद्भिरेव ?, न तावत् समस्तैरिति पक्षः क्षमः, तेषामसङ्ख्यत्वेन ए तैर्विचारस्य कर्तुमशक्यत्वात् , तथाहि-यावन्तो वचनमार्गास्तावन्त एव नयाः, यथोक्तम्-"जावइया वयणपहा
तावइया चेव होंति नयवाया। जावइया नयवाया तावइया चेव परसमया ॥१॥" न च निजनिजाभिप्रायविरचितानां वचनमार्गाणां सङ्ख्याऽस्ति, प्रतिप्राणि भिन्नत्वादभिप्रायाणां, नापि कियद्भिरिति वक्तुं शक्यम् , अनव| स्थाप्रसङ्गात् , सङ्ख्यातीतेषु हि तेषु यावदेभिर्विचारणा क्रियते तावदेभिरपि किं नेत्यनवस्थाप्रेरणायां न नैयत्याव-14
PI॥६७॥ १ संबन्धोपक्रमतः समीपमानीय न्यस्तनिक्षेपम् । शास्त्रं ततोऽनुगम्यते नयैर्नानाविधानैः ॥ १॥ २ यावन्तो वचनपथास्तावन्त एव |भवन्ति नयवादाः । यावन्तो नयवादास्तावन्त एव परसमयाः ॥ १॥
तावत् समावस्थाविलक्षण
MORRECLASARAMGANGACAUSA
वचनमा
N
जावइया
GALORE
dain Education International
For Personal & Private Use Only
www.jainelibrary.org