SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ PROGRAMMEACHE 'मलपंकपुष्वर्य'ति जीवशुद्धयपहारितया मलवन्मलः स चासौ 'पावे वजे वेरे पंके पणए यत्ति वचनात् पङ्कश्च कममलपङ्कः स पूर्व-कार्यात् प्रथमभावितया कारणमस्येति मलपङ्कपूर्वकं, यद्वा-'माओउयं पिऊसुक्क त्ति वचनात् रक्तशुक्रे एव मलपङ्को तत्पूर्वकं, 'सिद्धो वा' निष्ठितार्थो वा 'भवति' जायते 'शाश्वतः' सर्वकालावस्थायी, न तु परपरिकल्पिततीर्थनिकारादिकारणतः पुनरिहागमवानशाश्वतः, सावशेषकर्मवांस्तु देवो वा भवति, अप्परए'त्ति अल्पमितिअविद्यमानं रतमिति-क्रीडितं मोहनीयकर्मोदयजनितमस्येति अल्परतो-लवसप्तमादिः, अल्परजा वा प्रतनुवध्यमानकर्मा, महती-महाप्रमाणा प्रशस्या वा ऋद्धिः-चक्रवर्तिनमपि योधयेत् इत्यादिका विकरणशक्तिः तृणाग्रादपि हिरण्यकोटिरित्यादिरूपा वा समृद्धिरस्येति महर्द्धिकः, देवविशेषणं वा, 'इतिः' परिसमाप्तावेवमर्थे का, एतावद्विनयश्रुतमनेन वा प्रकारेण 'ब्रवीमि' इति गणभृदादिगुरूपदेशतः, न तु खोप्रेक्षया इति ॥४८॥ उक्तोऽनुगमः, सम्प्रति चतुर्थमनुयोगद्वारं नया इति, नयति-अनेकांशात्मकं वस्त्वेकांशावलम्बनेन प्रतीतिपथमारोपयति नीयते वा तेन तस्मिंस्ततो वा नयनं वा नयः-प्रमाणप्रवृत्त्युत्तरकालभावी परामर्श इत्यर्थः, उक्तं च-"सै नयइ तेण तहिं का ततोऽहवा वत्थुणो व जंणयणं । बहुहा पजायाणं संभवओ सो णतो णामं ॥१॥" ननु सन्त्वमी नयाः, एषां तु १ पापं वजं वैरं पङ्कः पनकश्च..२ मातुरातवं पितुः शुक्रम् . ३ स नयति तेन तत्र वा ततोऽथवा वस्तुनो वा यन्नयनम् । बहुधा पर्यायाणां संभवतः स नयो नाम ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy