________________
उत्तराध्य. पूरणे, कस्मिन् पुनीवेऽग्रावे वेत्याह-'अत्यमिति अर्थ्यत इत्यर्थः तस्मिन्-द्रव्ये गुणे वा, यत आह-"अत्थो दवं
अध्ययनम् गुणो वावि" 'यतितव्य'मिति यत्नः कार्यः, किमुक्तं भवति ?-ग्राह्यः ग्रहीतव्यः इतरश्च परिहर्तव्यः, 'एवः' अवधाबृहद्वृत्तिः
रणे, स च व्यवहितसम्बन्धः, ततोऽयमर्थः-ज्ञात एव ग्रहीतव्येऽग्रहीतव्ये वाऽर्थे यतितव्यम्, अन्यथा प्रवर्तमानस्य फलविसंवाददर्शनात् , तथा चान्यैरप्युच्यते-"सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धि"रिति, अज्ञानस्यैव च बहुदोषत्वदर्शनात् , यतो बालैरप्युघुष्यते-"अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेम्यः । अर्थ हितमहितं वा न वेत्ति येनाऽऽवृतो लोकः॥१॥" आगमोऽप्येवमेवावस्थितः, यतस्तत्र कर्मनिर्जरणाधीना मुक्तिरुक्ता, कर्मनिर्जरणे च ज्ञानमेवाऽऽत्यन्तिको हेतुः, तद्विरहितानां तामलिप्रभृतीनां कष्टानुष्ठायिनामपि अल्पफलत्वाभिधानात्, उक्तं हि-"जं | अन्नाणी कम्म खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेणं ॥१॥" यदपि दर्शनसत्तायां चारित्ररहितस्यापि सिझंति चरणरहिया दंसणरहिया न सिझंति' इत्यागमेन मुक्तिप्रतिपादनं, तदपि ज्ञानप्राधा-14 न्यख्यापनपरं, दर्शनरहितस्य हि द्वादशाङ्गमप्यज्ञानमेवेति न तत्र कष्टक्रियासम्भवेऽपि मुक्तिः, दर्शनोत्पत्तौ तु क्रियां
विनापि मरुदेव्यादीनामिव सम्यग्ज्ञानमात्रादेव मुक्त्यवाप्तिरित्यर्थप्रतिपादकत्वादस्य, अत एव बहुश्रुतपूजाध्ययने ॥६ ॥ 8| १ अर्थो द्रव्यं गुणो वाऽपि । २ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ॥ १॥ ६३ सिध्यन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org