________________
*
*
*
*
भद्रस्तं-कल्याणावह 'वाहकः' अश्वन्दमः, 'बालम्' अज्ञं 'श्राम्यति' खिद्यते शासत् , स हि सकृदुक्त एव न कृत्येषु प्रवर्तते, तत इदं कुरु इदं च मा कार्षीरित्यादि पुनः पुनस्तमाज्ञापयन् शिक्षयित्वा, कमिव कः? इत्याह-'गलिम्' उक्तरूपमश्वमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरोः श्रमहेतुत्वमुद्भावयन् बालस्याभिसन्धिमाहA खड्डयाहिं चवेडाहिं, अक्कोसेहि वहेहि य । कल्लाणमणुसासंतं, पावदिट्टित्ति मन्नइ ॥ ३८॥ (सूत्रम्) | व्याख्या-'खड्डुकाभिः' टक्कराभिः 'चपेटाभिः' करतलाघातैः ‘आक्रोशैः' असत्यभाषणैः 'वधैश्च' दण्डिकादिघातैः, चशब्दादन्यैश्चैवंप्रकारैर्दुःखहेतुभिरनुशासनप्रकारस्तमाचार्य 'कल्याणम्' इहपरलोकहितम् 'अनुसासन्तं' शिक्षयन्तं, पापा दृष्टि:-बुद्धिरस्पति पापदृष्टिः, अयमाचार्य इति मन्यते, यथा-पापोऽयं मां हन्ति निघणत्वात् , चार
कपालकवत् , पठन्ति च-'खड्डया में' इत्यादि, अत्र व्यवच्छेदफलत्वाद् वाक्यस्य खड्कादय एव मम नापरं किञ्चित् । ४ समीहितमस्तीत्यभिसन्धिना कल्याणमनुशासन(त)माचार्य पापदृष्टिं मन्यते, यद्वा-वाग्भिरप्यनुशास्यमानोऽसौ ४ त खड्डकादिरूपा वाचो मन्यत इति सूत्रार्थः ॥ ३८ ॥ गुरोरतिहितत्वं प्रचिकाशयिपुर्विनीताभिसन्धिमाहपुत्तो मे भाय नाइत्ति, साहू कल्लाण मन्नइ। पावदिट्ठि उ अप्पाणं, सासंदासं व मन्नइ ॥३९॥(सूत्रम्) व्याख्या-पुत्रो मे भ्राता ज्ञातिरिति, अत्रेवार्थस्य गम्यमानत्वात् पुत्र इवेयादिबुद्ध्याऽऽचार्यों मामनुशास्तीति
***
*
***
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org