________________
अध्ययनम्
उत्तराध्य. बृहद्वृत्तिः ॥११॥
प्रतिकृतं, सुष्ठ पक्कं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहृतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं प्रत्यनीकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकूपादिः, 'सुलढित्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचो वर्जयेन्मुनिः। निरवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतमुपकरणमशिवोपशान्तये, सुहतं वा कर्मानीकादि, सुमृतमस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये, 'सुलहित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा-“पयंत्तपक्केत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्न-| मालवे । पयत्तलटेत्ति व कम्महेउयं, पहारगाढेत्ति व गाढमालवे ॥१॥” इत्याप्तोपदेशात् प्रयत्नकृतपक्कादिरूपं वदेदपीति, अस्मिंश्च पक्षे प्रतिरूपयोगयोजनात्मको वाचिकविनय उक्त इति सूत्रार्थः ॥ ३६॥ विनय एवादरख्यापनाय सुविनीतेतरोपदेशदानतो यद्गुरोर्भवति तदुपदेशयितुमाहरमए पंडिए सासं, हयं भदं व वाहए । बालं सम्मइ सासंतो, गलिअस्समिव वाहए ॥ ३७॥ (सूत्रम्)
व्याख्या-'रमते' अभिरतिमान् भवति, 'पण्डितान्' विनीतविनेयान् , 'शासत्' इत्याज्ञापयन् कथञ्चित् प्रमादस्खलिते शिक्षयित्वा, गुरुरिति शेषः, कमिव कः ? इत्याह-'हयमिव' अश्वमिव, कीदृशम् ?-भाति भन्दते वा | १ प्रयत्नपक इति वा पक्कमालपेत् , प्रयत्नच्छिन्न इति वा छिन्नमालपेत् । प्रयत्नलष्ट इति वा कर्महेतुकं, प्रहारगाढ इति वा गाढ|मालपेत् ॥१॥
॥६१॥
www.jainelibrary.org
For Personal & Prive Use Only
JainEducation International