SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥६२॥ S ACROSAROCALSO |'साधुः' सुशिष्यः 'कल्याणं' कल्याणहेतुमाचार्यमनुशासनं वा मन्यते, स हि विवेचयति शिष्यः-सौहार्दादसौ मां शास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ?, ममैव त्वर्थभ्रंश इति । बालोऽप्येवं किं न मन्यत इत्याह-'पापदृष्टिस्तु' कुशिष्यः पुनरात्मानं 'सासंति प्राकृतत्वाद्धितानुशासनेनापि शास्यमानं दासमिव मन्यते, यथा असौ दासवन्मामाज्ञापयति, ततोऽस्य शास्तरि पापदृष्टिताऽभिसन्धिरेव सम्भवतीति सूत्रार्थः ॥ ३९॥ विनयसर्वखमुपदेष्टुमाह| ण कोवए आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई न सिया, न सिया तोत्तगवेसए॥४०॥ (सूत्रम्) व्याख्या-'न कोपयेत् 'न कोपोपेतं कुर्यात् , आचार्यम् , उपलक्षणत्वादपरमपि विनयाहम्, 'आत्मानमपि' गुरुभिरतिपरुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथञ्चित् सकोपतायामपि 'बुद्धोपघाती' आचार्योपघातकृत् | 'न स्यात् ' न भवेत् , तथा न स्यात् तुद्यते-व्यथ्यतेऽनेनेति तोत्रं-द्रव्यतः प्राजनको भावतस्तु तद्दोषोद्भावकतया 8 व्यथोपजनकं वचनमेव, तद् गवेषयति किमहममीषां जात्यादिदृषकं वच्मि? इत्यन्वेषयतीति तोत्रगवेषकः, प्रक्रमाद्गुरूणां, न स्यादिति चादरख्यापनार्थत्वान्न पुनरुक्तं, यदुक्तं-बुद्धोपघातीन स्यात्तत्रोदाहरणं-कश्चिदाचार्यादिगणिगुण- सम्पत्समन्वितो युगप्रधानःप्रक्षीणप्रायकर्माऽऽचार्योऽनियतविहारितया विहर्तुमिच्छन्नपि परिक्षीणजवाबलः क्वचिदेकस्थान एवावतस्थे, तत्रत्यश्रावकजनेन चैतेषु भगवत्सु सत्सु तीर्थ सनाथमिति विचिन्तयता तद्वयोऽवस्थासमुचितस्त्रि ॥२॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy