________________
एष वन्ध्यासुतो यातीत्यादि वा 'न' नैव, म्रियतेऽनेन राजादिविरुद्धेनोच्चारितेनेति मर्म तद्गच्छति वाचकतयेति मर्मगं, वचनमिति सर्वत्र शेषः, अतिसङ्क्लेशोत्पादकत्वात् तय, अत्राह च - " तहेवे काणं काणत्ति, पंडगं पंडगत्ति वा । वाहियं वावि रोगित्ति, तेणं चोरोत्ति नो वए ॥१॥ एएणऽण्णेण अद्वेणं, परो जेणुवहम्मई । आयारभावदोसण्णू, ण तं भासेज पण्णवं ॥ २ ॥" 'आत्मार्थम् ' आत्मप्रयोजनं 'परार्थ वा' परप्रयोजनम् 'उभयस्स' त्ति आत्मनः परस्य च, प्रयोजनमिति गम्यते 'अंतरेण व'त्ति विना वा प्रयोजनमित्युपस्कारः, भाषादोपं परिहरेदित्यनेनैव गते पृष्टविष - यत्वादस्या पौनरुक्त्यं, यद्वा भाषादोषो जकारमकारादिरेव तत्र गृह्यत इति न दोषः, सूत्रद्वयेन चानेन वाग्गुय | भिधानतश्चारित्रविनय उक्त इति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषपरिहारमभिधायोपाधिकृत दोषपरिहारमाहसमरेसु अगारेसुं, गिहसंधिसु अ महापहेसु । एगो एगित्थीए सद्धिं, नेव चिट्ठेन संलवे ॥ २६॥ (सूत्रम् )
व्याख्या- 'समरेषु' खरकुटीपु, तथा च चूर्णिकृत् - 'समरं नाम जत्थ हेट्ठा लोयारा कम्मं करेंति ' उपलक्षणत्वादस्यान्येष्वपि नीचास्पदेषु 'अगारेषु' गृहेषु 'गृहसन्धिषु च' गृहद्वयान्तरालेषु च 'महापथेषु' राजमार्गादौ, | किमित्याह - 'एकः' असहायः एका असहाया सा चासौ स्त्री च एकत्री तथा 'सार्द्ध' सह 'नैव तिष्ठेत् ' असंल१ तथैव काणं काण इति, पण्डकं पण्डक इति वा । व्याधिमन्तं वाऽपि रोगी इति, स्तेनं चौर इति नो वदेत् ॥ १॥ एतेनान्येनार्थेन, परो येनोपहन्यते । आचारभावदोषज्ञो, न तद्भाषेत प्रज्ञावान् ॥ २ ॥ २ समरं नाम यत्राधस्तात् लोहकाराः कर्म कुर्वन्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org