________________
उत्तराध्य.
बृहद्वृत्तिः
।। ५७ ।।
| पन्नेव चोर्द्धस्थानस्थो न भवेत्, 'न संलपेत् ' न तयैव सह संभाषं कुर्यात्, अत्यन्तदुष्टतोद्भावनपरं चैकग्रहणम्, अन्यथा ससहायस्यापि ससहायया अपि च स्त्रिया सहावस्थानं सम्भाषणं चैवंविधास्पदेषु दोषायैव, प्रवचनमालिन्यादिदोपसम्भवात्, अथवा सममरिभिर्वर्तन्त इति समरा द्रव्यतो जनसंहारकारिणः संग्रामाः भावात्तु स्त्रीणामरिभूतत्वात् ज्ञानादिजीवखतत्त्वघातिनः तासामेव दृष्ट्या दृष्टिसम्बन्धाः, तत्रेह भावसमरैरधिकारः, सप्तमी चेयं, | ततोऽयं भावार्थ:- द्रव्यसमरा हि न स्युरपि प्राणापहारिणः, भावसमरास्तु ज्ञानादिभावप्राणापहारिण एव, विशेषतस्त्वेका कितायां, तत एवमेतेष्वपि दारुणेषु भावसमरेषु सत्सु नैक एकस्त्रिया सार्द्धमगारादिषु तिष्ठेत् संलपेद्वा अनेनापि चारित्रविनय एवोक्तः, उपदेशाधिकाराच्च न पौनरुक्त्यम्, एवमन्यत्रापि भावनीयमिति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुभिः शिक्षितो यत्कुर्यात् तदेवाह -
जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभुत्ति पेहाए, पयओ य (तं) पडिस्सुणे ॥२७॥ (सूत्रम्)
व्याख्या - यन्मां बुद्धा 'अनुशासन्ति' शिक्षां ग्राहयन्ति 'शीतेन' सोपचारवचसा, 'शीलेन वे'ति पाठः, तत्र शीलं - महात्रतादि उपचारात्तज्जनकं वचोऽपि शीलं तेन, यद्वा 'शील समाधौ ' ततः शीलेन - समाधानकारिणा - भद्र ! भवादृशामिदमनुचितमित्यादिना, 'परुषेण' कर्कशेन, उभयत्र वचसेति गम्यते, तत् ‘प्रतिशृणुयात्' विधेयतया अङ्गीकुर्यादित्युत्तरेण सम्बन्धः, किमभिसन्धायेत्याह- मम 'लाभः' अप्राप्तार्थप्राप्तिरूपः, यन्मामनाचारकारिणममी शास
Jain Education International
For Personal & Private Use Only
अध्ययनम्
१
॥ ५७ ॥
www.jainelibrary.org