________________
उत्तराध्य.
अध्ययनम्
बृहद्वृत्तिः
वए पयत्तेणं । जं जस्स होइ जोगं परिणामगमाइ तं तु सुयं ॥२॥ निस्सेसमपरिसेसं जाव समत्तं च ताव वाएइ । एसो सुयविणओ खलु निहिटो पुवसूरीहिं ॥३॥' इत्याद्यागमाभिहितस्य श्रुतविनयस्य साक्षादभिधानं, यच विनयं प्रादुष्करिष्यामीति प्रतिज्ञाय 'अब्भुटाणं अंजलि' तथा 'दंसणणाणचरित्ते' इत्यादिना ग्रन्थेनेव न तस्य शुद्धस्वरूपाभिधानं,किन्तु 'णिसंते सिया अमुहरी' इत्यादि लिङन्तादिपदैरुपदेशरूपतया, तदपि प्रसङ्गत एव यथायोगमाचार्यविनयोपदर्शनपरमिति भावनीयमिति सूत्रार्थः॥२३॥ पुनः शिष्यस्य वाग्विनयमाह
मुसं परिहरे भिक्खू, न य ओहारिणीं वए।भासादोसं परिहरे, मायं च वजए सया॥२४॥(सूत्रम्) व्याख्या-'मृषा' इत्यसत्यं भूतनिह्नवादि 'परिहरेत् ' सर्वप्रकारमपि त्यजेत् , भिक्षः, 'न च' नैव 'अवधारणी गम्यमानत्वाद् वाचं गमिष्याम एव वक्ष्याम एव इत्येवमाद्यवधारणात्मिकां 'वदेत्' भाषेत, किंबहुना ? 'भाषादोपम्' अशेषमपि वाग्दूषणं सावधानुमोदनादिकं परिहरेत् , न च कारणोच्छेदं विना कार्योच्छेद इत्याह-मायाँ, च-| शब्दात् क्रोधादींश्च तद्धेतून वर्जयेत् सदा' सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्च
ण लविज पुट्टो सावज, न निरट्रं न मम्मयं । अप्पणट्रा परट्रा वा, उभयस्संतरेण वा॥२५॥ (सूत्रम्) व्याख्या-'न लपेत् ' न वदेत् ‘पृष्ट' इति पर्यनुयुक्तः 'सावयं सपापं न 'निरर्थम्' अर्थविरहितं दशदाडिमादि|
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org