________________
गोणीहरण सभूमी नेऊणं गोणिओ पहे भक्खे । निविसया परिवेसण ठियावि ते कविया घत्थे ॥ ११९॥
व्याख्या-इह गाथाक्षरयोजना सुगमत्वात्स्वयमेव कर्तव्या केवलं निर्विशका' उपभोक्ता, निष्पूर्वस्य विशेरुपभोगे वर्तमानत्वात् , तथा चोक्तम्-"निवेश उपभोगः स्यात् ', 'कूजकाः' व्याहारकारिणः, गवां व्यावर्तका इत्यर्थः, 'घत्थे' इति गृहीताः, कथानकमुच्यते-इह कचिद्रामे बहवो दस्यवः, ते चान्यदा कुतश्चित्सन्निवेशादा अपहृत्य निजग्रामाभिमुखं प्रचलिताः, गच्छतां च तेषामपान्तराले केऽप्यन्ये दस्यवः पथिका मिलितवन्तः, ततस्तेऽपि तैः सार्दै व्रजन्ति, व्रजन्तश्च स्वदेशं प्राप्ताः, ततः प्राप्तः स्वदेश इति निर्भया भोजनवेलायां कतिपया गा विनाश्य भोजनाय तन्मांसं पक्तुमारब्धवन्तः, अस्मिंश्च प्रस्तावे केऽप्यन्येऽपि पथिकाः समाययुः, ततस्तेऽपि तैर्दस्युभि जनाय निमन्त्रिताः, ततो गोमांसे पके केऽपि चौराः पथिकाश्च भोक्तुं प्रवृत्ताः, केपि गोमांसभक्षणं बहुपापमिति परिभाव्य न भोजनाय प्रवृत्ताः, केवलमन्येभ्यः परिवेषणं विदधति, अत्रान्तरे च निष्पत्याकारनिशितकरवाकभीषणमूर्तयः समाययुः कूजकाः, ततस्तैः सर्वेऽपि भोक्तारः परिवेषकाच परिगृहीताः, तत्र ये पथिका अपान्तराले मिलितास्ते पथिका वयमिति ब्रुवाणा अपि चौरोपनीतगोमांसभक्षणपरिवेषणप्रवृत्ततया चौरवदुष्टा इति गृहीता विनाशिताश्च ॥ अमुमेवार्थ दार्शन्तिके योजयति
जेऽविय परिवेसंती, भायणाणि धरंति य । तेऽवि बझंति तिव्वेण, कम्मुणा किमु भोइणो? ॥ १२० ॥ ___ व्याख्या-इह चौराणां येऽपान्तराले भोजनवेलायां वा ये मिलिताः पथिकास्तत्रापि ये परिवेषमात्रं भाजनधारणमात्रं वा कृतवन्तस्तेऽपि कूजकैरागत्य बद्धा विनाशिताश्च, एवमिहापि ये साधवोऽन्येभ्यः साधुभ्यः आधाकर्म परिवेषयन्ति वा धरन्ति तेऽपि तीवेण' दुस्सहविपाकेन नरकादिगतिहेतुना कर्मणा बध्यन्ते, किं पुनराधाकर्मभोजिनः ? । तत एतदोषभयात्परिवेषणादिमात्रमप्याधाकर्मणः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org