SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पिण्डनियुतेर्मलयगिरीयावृत्तिः प्रतिषेवणादौ दोषाः महत्तस्य शिष्य माकृते हि लिन जातं यत्त्वये बलात, तथाऽऽधा गमः । सम्पति उवओगंमि य लाभं कम्मग्गाहिस्स चित्तरक्खट्ठा । आलोइए सुलद्धं भणइ भणंतस्स पडिसुणणा ॥ ११६ ॥ व्याख्या-इह यो गुरुरुपयोगकरणवेलायां कर्मग्राहिण आधाकर्मग्रहणाय प्रवृत्तस्य शिष्यस्य 'चित्तरक्षार्थ' मनोऽन्यथाभावनिवारणार्थ दाक्षिण्याद्युपेतो 'लाभं भणति' लाभ इति शब्दमुच्चारयति, तथाऽऽधाकर्मणि गृहस्थगृहादानीय आलोचिते श्राद्धिकयेदं करोटिकया दत्तमित्येवं निवेदिते 'सुलद्धं' शोभनं जातं यत्त्वयेदं लब्धमिति भणति तस्य गुरोरित्थं भणतः प्रतिश्रवणं नाम दोषः, सूत्रे तु स्त्रीत्वनिर्देशः माकृतत्वात् , प्राकृते हि लिङ्गं व्यभिचारि, यदाह पाणिनिः स्वपाकृतलक्षणे-“लिङ्गं व्यभिचायपी"ति, प्रतिश्रवणं च नामाभ्युप-1 गमः ॥ सम्मति संवासानुमोदनयोः स्वरूपं प्रतिपादयतिसंवासो उ पसिद्धो अणुमोयण कम्मभोयगपसंसा । एएसिमुदाहरणा एए उ कमेण नायव्वा ॥ ११७ ॥ व्याख्या-'संवासः' आधाकर्मभोक्तृभिः सहकत्र संवसनरूपः प्रसिद्ध एव, अनुमोदना त्वाधाकर्मभोजकप्रशंसा-कृतपुण्याः सुलब्धिका एते ये इत्थं सदैव लभन्ते भुञ्जते वेत्येवंरूपा ॥ तदेवमुक्तं प्रतिषेवणादीनां चतुर्णामपि स्वरूपं, सम्पत्येतेषामेव प्रतिषेवणादीनां क्रमेण 'एतानि' वक्ष्यमाणस्वरूपाणि उदाहरणानि ज्ञातव्यानि, सूत्रे च उदाहरणशब्दस्य पुंल्लिङ्गता प्राकृतलक्षणवशात् ॥ तत्र यान्युदाहरणानि वक्तव्यानि तेषां नामानि क्रमेण प्रतिपादयतिपडिसेवणाएं तेणा पडिसणणाए उ रायपत्तो उ। संवासंमि य पल्ली अणमोयण रायट्ठो य ॥ ११८॥ २ व्याख्या–प्रतिषेवणस्य स्तेना उदाहरणं, प्रतिश्रवणस्य तु राजपुत्रं, राजपुत्रोपलक्षिताः शेषाः पुरुषाः, संवासे 'पल्ली' पल्लीवास्तव्या वणिजः, अनुमोदनायां राजदुष्टो, राजदुष्टोपलक्षितास्तत्पशंसाकारिणः ॥ तत्र प्रथमतः प्रतिषेवणसम्बधिनं स्तेनदृष्टान्तं भावयति ॥४६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy