________________
धान्तं प्रवक्ष्यामि, तत्र प्रथमतः प्रतिषेवणास्वरूपं वक्तव्यं, तत्रापि य आधाकर्म स्वयमानीय भुते स आधाकर्मप्रतिसेवी प्रतीत एव ॥ केवळमिह ये परेणोपनीतमाधाकर्म भुञ्जानस्य न कश्चिदोष इति मन्यन्ते तन्मतविकुट्टनार्थ परेणोपनीतस्याऽऽधाकर्मणो भोजने | प्रतिषेवणादोषमाह
अन्नेणाहाकम्मं उवणीयं असइ चोइओ भणइ । परहत्थेणंगारे कतो जह न डज्झइ हु ॥ ११४ ॥ एवं खु अहं सुद्धो दोसो देतस्स कूडउवमाए । समयत्थमजाणंतो मूढो पडिसेवणं कुणइ ॥ ११५ ॥
व्याख्या-अन्येन' साधुना भक्तादिकमाधाकर्म 'उपनीतं गृहस्थगृहादानीय समर्पितं तद्योऽश्नाति स प्रतिषेवणां करोतीति सम्बन्धः, स चाधाकर्म भुञ्जानः केनाप्यपरेण साधुना घिग्गर्हामहे यच तत्र भवान्विद्वानपि संयतोऽप्याधाकर्म भुञ्जीतेति चोदितः | विक्षिप्तः सन् प्रत्युत्तरं भणति-यथा न मे कश्चिदोषः, स्वयंग्रहणस्याभावात्, यो हि नाम स्वयमाधाकर्म गृहीत्वा भुते तस्य दोषो, यस्तु परेणोपनीतं भुङ्क्ते तस्य न कश्चित्, तथा चात्र दृष्टान्तो यथा-परहस्तेनाङ्गारान् कर्षयन्न दह्यते, एवमहमप्याधाकर्मभोजी 'खु' निश्चितं शुद्ध एव, दोषः पुनर्ददतो यथा परस्य स्वहस्तेनाङ्गारानाकर्षतः, एवं 'कूटया उपमया' अलीकेन दृष्टान्तेन 'समयार्थ' भगवत्प्रवचनोपनिषदं “जैस्सहा आरंभो पाणिवहो होइ तस्स नियमेणं । पाणिवहे वयभंगो वयभंगे दोग्गई चेव ॥१॥" इत्यादिरूपम् अजानानः, अत एव मूढः प्रतिषेवणं कुरुते ॥ तदेवमुक्तं प्रतिषेवणस्य स्वरूपं, सम्पति प्रतिश्रवणस्य स्वरूपमाह१ यस्यार्थमारम्भः प्राणिवधो भवति तस्य नियमेन । प्राणिवधे व्रतभङ्गो व्रतभङ्गे दुर्गतिरेव ।। १ ।।
०००००००००००००००००००००००००००००००
Jain Education International
For Personal & Private Use Only
www
library.org