________________
पिण्डनियु- तेर्मलयगिरीयावृत्तिः ॥४५॥
आधाकर्मग्रहणे प्रसङ्गः प्रतिषेवणादि प्रायश्चितं
तवानिति, तत एवं तेषां बुद्धयुत्पादे सन्तत्या साधूनामाधाकर्मभोजने दीर्घकालं षड्जीवनिकायविधातः स परमार्थतस्तेन प्रवर्त्यते, यस्तु न गृह्णाति स इत्थंभूतप्रसङ्गद्धिं निवारयति, प्रवृत्तेरेवाभावात् , तथा चाह–'अगिण्हमाणो उ वारेइ' ततोऽतिप्रसङ्गदोपभयात्कृतकारितदोषरहितमपि नाधाकर्म भुञ्जीत, अन्यच्च तदाधाकर्म जानानोऽपि भुञ्जानो नियमतोऽनुमोदते, अनुमोदना हि नाम अप्रतिषेधनम् ||
अप्रतिषिद्धमनुमत मिति विद्वत्पवादात् , तत आधाकर्मभोजने नियमतोऽनुमोदनादोषोऽनिवारितप्रसरः, अपि च-एवमाधाकर्मभोजने कदाचिन्मनोज्ञाहारभोजनभिन्नदंष्ट्रतया स्वयमपि पचेत्पाचयेद्दा, तस्मान्न सर्वथाऽऽधाकर्म भोक्तव्यमिति स्थितम् ॥ तदेवमुक्तमात्मकर्मेति नाम, सम्पति प्रतिषेवणादीनि नामानि वक्तव्यानि, तानि चात्मकम्र्मेति नामाङ्गत्वेन प्रवृत्तानि, ततस्तेषामात्मकम्मति नामाङ्गत्वं परस्परं| गुरुलघुचिन्तां च चिकीर्षुरिदमाह
अत्तीकरेइ कम्म पडिसेवाईहिं तं पुण इमेहिं । तत्थ गुरू आइपयं लहु लहु लहुगा कमेणियरे ॥ ११२॥
व्याख्या-तत्पुनझनावरणीयादिकं परकर्म 'आत्मीकरोति' आत्मसात्करोति 'एभिः' वक्ष्यमाणस्वरूपैः प्रतिषेवणादिभिः, ततः प्रतिषेवणादिविषयमाधाकापि प्रतिषेवणादिनाम, तत्र तेषां प्रतिषेवणादीनां चतुर्णा मध्ये 'आदिपदं' प्रतिषेवणालक्षणं 'गुरु' महादोषं, शेषाणि तु पदानि प्रतिषेवणादीनि लघुलघुलघुकानि द्रष्टव्यानि, प्रतिषेवणापेक्षया प्रतिश्रवणं लघु प्रतिश्रवणादपि संवासनं लघु संवासनादप्यनुमोदनमिति ।। सम्पत्येतेषामेव प्रतिषेवणादीनां स्वरूपं दृष्टान्तांश्च प्रतिपिपादयिषुस्तद्विषयां प्रतिज्ञामाह
पडिसेवणमाईणं दाराणऽणुमोयणावसाणाणं । जहसंभवं सरूवं सोदाहरणं पवक्खामि ॥ ११३ ॥ व्याख्या-प्रतिषेवणादीनां द्वाराणामनुमोदनापर्यवसानानां यथासम्भवं यद्यस्य सम्भवति तस्य तत्स्वरूपं सोदाहरणं' सह
॥४५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org