________________
मपि प्राप्तो भवति तथापि यावन्नाद्यापि बन्धः पतति तावद्दक्षतया झगिति तद्विषयादपसर्पति, यस्तु प्रमत्तो दक्षतारहितश्च स बध्यते एव, तस्मान्मृगोऽपि बध्यते परमार्थतः स्वप्रमादक्रियावशतो न परप्रयुक्तिमात्रात् , 'एवमेव ' अनेनैव मृगदृष्टान्तोक्तप्रकारेण 'भावकूटे' संयमरूपभावबन्धनाय कूटमिव कूटम्-आधाकर्म तत्र स 'बध्यते' ज्ञानावरणीयादिकर्मणा युज्यते, योऽशुभभावपरिणामः-आहारलाम्पट्यत आधाकर्मग्रहणात्मकाशुभभावपरिणामो न शेषः, न खल्वाधाकर्मणि कृतेऽपि यो न तद्हाति नापि भुते स ज्ञानावरणीयादिना पापेन बध्यते, न हि कूटे स्थापितेऽपि यो मृगस्तद्देश एव नाऽऽयाति आयातोऽपि यत्नतस्तद्देश परिहरति स कूटेन बन्धमानोति, तन्न परप्रयुक्तिमात्राद्वन्धो येन परोक्तनीत्या परकृतकर्मण आत्मकमीकरणमुपपद्यते, किन्त्वशुभाध्यवसायभावतः, तस्मादशुभो भाव आधाकर्म-|| ग्रहणरूपः साधुना प्रयत्नेन वर्जयितव्यः, परकर्म आत्मकर्म करोतीत्यत्र च वाक्ये भावार्थः प्रागेव दर्शितः, यथा परस्य पाचकादेर्यकर्म तदात्मकर्मीकरोति, किमुक्तं भवति ?-तदात्मन्यपि कर्म करोतीति, ततो न कश्चिदोषः, परकर्मणश्चात्मकम्मीकरणमाधाकर्मणा ग्रहणे भोजने वा सति भवति, नान्यथा, तत उपचारादाधाकर्म आत्मकर्मेत्युच्यते ॥ ननु तदाधाकर्म यदा स्वयं करोत्यन्यैर्वा कारयति कृतं वाऽनुमोदते तदा भवतु दोषो, यदा तु स्वयं न करोति नापि कारयति नाप्यनुमोदते तदा कस्तस्य ग्रहणे दोष इति?, अत्राह___ कामं सयं न कुब्वइ जाणंतो पुण तहावि तग्गाही । वड्ढेइ तप्पसंगं अगिण्हमाणो उ वारेइ ॥ १११॥
___ व्याख्या-'काम' सम्मतमेतद्, यद्यपि स्वयं न करोत्याधाकर्म उपलक्षणमेतन्न कारयति, तथाऽपि मदर्थमेतन्निष्पादितमिति जानानो यद्याधाकर्म गृह्णाति तर्हि तदाही 'तत्प्रसङ्गम् ' आधाकर्मग्रहणप्रसङ्गं वर्द्धयति, तथाहि-यदा स साधुराधाकर्म जानानो गृह्णाति तदाऽन्येषां साधूनां दायकानां चैवं बुद्धिरुपजायते-नाऽऽधाकर्मभोजने कश्चनापि दोषः, कथमन्यथा स सावुर्जानानोऽपि गृही
000000000000000000000000000०००००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org