________________
पिण्डनियुतेर्मलयगिरीयावृत्तिः ॥४४॥
आत्मकर्मीकरणेनात्मकर्मता
कूडउवमाइ केइ परप्पउत्तेऽवि बेंति बंधोत्ति ।। व्याख्या-'केचित् । स्वयूथ्या एव प्रवचनरहस्यमजानानाः 'कूटोपमया' कूटष्टान्तेन ब्रुवते 'परप्रयुक्तेऽपि ' परेण पाचकादिना निष्पादितेऽप्योदनादौ साधोस्तद्राहकस्य भवति बन्धः, एतदुक्तं भवति-यथा व्याधेन कूटे स्थापिते मृगस्यैव बन्धो न व्याधस्य, तथा गृहस्थेन पाकादौ कृते तद्राहकस्य साधोर्बन्धो न पाककर्तः, ततः परस्य यत्कर्म ज्ञानावरणीयादि सम्भवति तदाधाकर्मग्राही स्वस्यैव सम्बन्धि करोतीति परकर्म आत्मकर्मीकरोतीत्युच्यते, तदेतदसदुत्तरं, जिनवचनविरुद्धत्वात् , तथाहि-परस्यापि साक्षादारम्भकर्तृत्वेन नियमतः कर्मबन्धसम्भवः, ततः कथमुच्यते तद्भाहकस्य साधोबन्धो न पाककर्तुः ?, न च मृगस्यापि परप्रयुक्तिमात्राद् बन्धः, किन्तु स्वस्मादेव प्रमादादिदोषात्, एवं साधोरपि ।। तथा चैतदेव नियुक्तिकृदाह
भणइ य गरू पमत्तो बज्झइ कूडे अदक्खो य ॥ १०९॥ एमेव भावकूडे बज्झइ जो असुभभावपरिणामो । तम्हा उ असुभभावो वज्जेय वो पयत्तेणं ॥ ११० ॥
व्याख्या-'भणति' प्रतिपादयति, 'च' पुनरर्थे, पुनरर्थश्चायम-एके केचन सम्यगगुरुचरणपर्युपासनाविकललया यथाऽवस्थित तत्त्वमवेदितारोऽनन्तरोक्तं ब्रुवते, गुरुः पुनर्भगवान् श्रीयशोभद्रसूरिरेवमाह, एतेनैतदावेदयति-जिनवचनमवितथं जिज्ञासुना नियमतः प्रज्ञावताऽपि सम्यग्गुरुचरणकमलपर्युपासनमास्थेयम् , अन्यथा प्रज्ञाया अवैतथ्यानुपपत्तेः, उक्तं च-" तत्तदुत्प्रेक्षमाणानां, पुराणैरागमैविना। अनुपासितवृद्धानां, प्रज्ञा नातिप्रसीदति ॥१॥" गुरुवचन मेव दर्शयति-मृगोऽपि खलु कूटैः स बध्यते यः प्रमत्तोऽदक्षश्च भवति, यस्त्वप्रमत्तो दक्षश्च स कदाचनापि न बध्यते, तथाहि-अपमत्तो मृगः प्रथमत एव कूरदेशं परिहरति, अथ कथमपि प्रमादवशात् कूटदेश-||
॥४४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org