________________
आत्मविधाते ज्ञानदर्शनवधोऽपि, तयोश्चरणफलत्वात्, फलाभावे च हेतोनिरर्थकत्वादिति, अपिच-यश्चरण प्रतिपद्याऽऽ हारलाम्पट्यादिना ।
ततो न विनिवर्त्तते स नियमाद्भगवदाज्ञाविलोपादिदोषभागी, भगवदाज्ञाविलोपादौ च वर्तमानो न सम्यग्ज्ञानी नापि सम्यग्दर्शनी, उक्त च-"आणाए चिय चरणं तब्भंगे जाण किं न भगति । आणं च अइकतो कस्साएसा कुणइ सेसं ? ॥१॥" तथा " जो हवायं न कुणइ मिच्छट्टिी तओ हु को अन्नो ? । वड्डेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥२॥" ततश्वरणविधाते नियमतो ज्ञानदर्शनविघातः, 'व्यवहारस्य' व्यवहारनयस्य पुनर्मतेन हते चरणे 'शेषयोः ज्ञानदर्शनयोः 'भजना' कचिद्भवतः कचिन्न, य एकान्तेन भगवतो विप्रतिपन्नस्तस्य न भवतो यस्तु देशविरतिं भगवति श्रद्धानमात्रं वा कुरुते तस्य व्यवहारनयमतेन सम्पग्दृष्टित्वाद्भवत इति, ततो निश्चयनयमतापेक्षया चरणात्मनि हते ज्ञानदर्शनरूपावप्यात्मानौ हतावेवेति परप्राणव्यपरोपणरतः समूळघातमात्मन्न इति परमाणव्यपरोपणमात्मनं, तञ्च साधोराधाकर्म भुञ्जानस्यानुमोदनादिद्वारेण नियमतः सम्भवतीत्युपचारत आधाकर्म आत्मन्नमित्युच्यते ॥ तदेवमुक्तमात्मननाम, सम्पत्यात्मकर्मनाम्नोऽवसरः, तदपि चात्मकर्म चतुर्दा, तद्यथा-नामात्मकर्म स्थापनात्मकर्म द्रव्यात्मकर्म भावात्मकर्म च, इदं । चाधाकर्मेव तावद्भावनीयं यावन्नोआगमतो भव्यशरीरद्रव्यात्मकर्म, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मकर्म प्रतिपादयति
दव्वंमि अत्तकम्मं जं जो उ ममायए तयं दव्वं । व्याख्या-यः पुरुषो यद् द्रम्मादिकं द्रव्यं 'ममायते' ममेति प्रतिपद्यते तत्-ममेति प्रतिपादनं तस्य पुरुषस्य 'दबंमि अत्तक१ आज्ञयैव चरणं तले जानीहि किं न भग्नमिति । आज्ञां चातिक्रान्तः कस्यादेशात् करोति शेषम् ? ॥ १ ॥ २ यो यथावाई न करोति मिथ्यादृष्टिस्ततः क एवान्यः । वर्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org