SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आत्मक तैर्मलयांगरीयावृत्तिः मनाम व्याख्या ||म्मति ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्ये-द्रव्यविषयमात्मकर्म भवति, आत्मसम्बन्धित्वेन कर्म-करणम् आत्मकर्मेति व्युत्पत्त्याश्रयणात् । भावात्मकर्म च द्विधा, तद्यथा-आगमतो नोआगमतश्च, तत्राऽऽगमत आत्मकर्मशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमतः पुनराह भावे असहपरिणओ परकम्मं अत्तणो कुणइ ॥ १०६ ॥ व्याख्या-'अशुभपरिणतः' अशुभेन प्रस्तावादाधाकर्मग्रहणरूपेण भावेन परिणतः परस्य-पाचकादेः सम्बन्धि यत् कर्मपचनपाचनादिजनितं ज्ञानावरणीयादि तत् आत्मनः सम्बन्धि करोति, तच परसम्बन्धिनः कर्मणः आत्मीयत्वेन करणं 'भावे' भावतः आत्मकर्म, नोआगमतो भावात्मकर्मेत्यर्थः, भावन-परिणामविशेषेण परकीयस्यात्मसम्बन्धित्वेन कर्म-करणं भावात्मकर्मेति व्युत्पत्तेः॥ एतदेव सार्द्धया गाथया भावयतिआहाकम्मपरिणओ फासुयमवि संकिलिट्रपरिणामो। आययमाणो बज्झइ तं जाणसु अत्तकम्मन्ति ॥ १०७ ॥ परकम्म अत्तकम्मीकरेइ तं जो उ गिहिउं भुंजे । व्याख्या-पासुकम्-अचेतनम् उपलक्षणमेतद् एषणीयं च स्वरूपेण भक्तादिकमास्तामाधाकर्मेत्यपिशब्दार्थः, 'सक्लिष्टपरिणामः सन्' आधाकर्मग्रहणपरिणतः सन् 'आददानो' गृह्णन् यथाऽहमतिशयेन व्याख्यानलब्धिमान् मद्गुणाश्चासाधारणविद्वत्तादिरूपाः सूर्यस्य भानव इव कुत्र कुत्र न प्रसरमधिरोहन्ति ?, ततो मद्गुणावर्जित एष सर्वोऽपि लोकः पक्त्वा पाचयित्वा च मह्यमिष्ट| मिदमोदनादिकं प्रयच्छतीत्यादि, स इत्थमाददानः साक्षादारम्भकर्नेव ज्ञानावरणीयादिकर्मणा बध्यते, ततस्तद् ज्ञानावरणीयादिकर्म 99999999999999999999999999999999 dain Education International For Personal & Private Use Only ww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy