________________
पिण्डनिर्यु - कैर्मलयगिरीयावृत्तिः
दुव्वाया खलु काया ।
व्याख्या—‘कायाः ' पृथिव्यादयः 'खलु' निश्चयेन 'द्रव्यात्मानो ' द्रव्यरूपा आत्मानः, जीवानां गुगपर्यायवत्तया द्रव्यत्वात्, उक्तं च- " अजीवकायाः धर्माधर्माकाशपुद्गलाः, द्रव्याणि जीवाचे " ( तत्रा० अ० ५-सू. १-२ ) ति । ततस्तेषां यदुपमर्द्दनं तद् ।। ४२ ।। ॐ द्रव्यात्मन्नं भवति । उक्तं द्रव्यात्मन्नं, सम्प्रति भावात्मनं वक्तव्यं तच द्विधा - आगमतो नोआगमतच, तत्र आगमत आत्मन्नशब्दार्थज्ञाता
तत्र चोपयुक्तः, नोआगमतो भावात्मन्नमाह
भावाया तिन्नि नाणमाईणि । परपाणपाडणरओ चरणायं अप्पणी हणइ ॥ १०४॥
व्याख्या- 'भावात्मानो' भावरूपा आत्मानः ' त्रीणि ज्ञानादीनि ' ज्ञानदर्शनचारित्राणि, आत्मनो हि पारमार्थिकं स्वस्वरूपं ज्ञानदर्शन चरणात्मकं, ततस्तान्येव परमार्थत आत्मानो न शेषं द्रव्यमात्रं स्वस्वरूपाभावात्, ततो यथास्त्रिी सन् परेषां पृथिव्यादीनां ये प्राणाः - इन्द्रियादयः तेषां यत् पातनं - विनाशनं तस्मिन् रतः - आसक्तः स आत्मनश्चरणरूपं भावात्मानं हन्ति, चरणात्मनि च हते | ज्ञानदर्शनरूपावप्यात्मानौ परमार्थतो हतावेव द्रष्टव्यौ, यत आह
निच्छयनयस्स चरणायविघाए नाणदंसणवहोऽवि । ववहारस्स उ चरणे हयंमि भयणा उ सेसाणं ॥ १०५ ॥ व्याख्या–निश्चयनयस्य मतेन चरणात्मविघाते सति ज्ञानदर्शनयोरपि वधो-विघातो द्रष्टव्यः, ज्ञानदर्शनयोर्हि फलं चरणप्रतिपत्ति| रूपा सन्मार्गप्रवृतिः, सा चेन्नास्ति तर्हि ते अपि ज्ञानदर्शने परमार्थतोऽसती एव, स्वकार्याकरणात् उक्तं च मूलटीकायां - 'चरणा
Jain Education International
For Personal & Private Use Only
आत्मन्नताहेतुः
॥ ४२ ॥
www.jainelibrary.org