SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अन्यथा न कोऽपि नरकं यायात्, न वा कोऽपि दुःखमनुभवेत् , तस्मादाधाकर्म अधोगतिनिवन्धनमित्यधाकम्त्यु च्यते ॥ तदेवमुक्तमधःकति नाम, सम्पत्यात्मन्ननान्नोऽवसरः, तदपि चात्मघ्नं चतुझे, तद्यथा-नामात्मघ्नं स्थापनात्मनं द्रव्यात्मघ्नं भावात्मन्नं च, इदमप्यधःकर्मवत्तावद्भावनीयं यावन्नोआगमतो ज्ञशरीरद्रव्यात्मन्नं भव्यशरीरद्रव्यात्मन्नं, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यात्मनं नियुक्तिकृदाह अट्ठाए अणट्ठाए छक्कायपमद्दणं तु जो कुणइ । अनियाए य नियाए आयाहम्मं तयं बेति ॥ १०३ ॥ व्याख्या-यो गृही 'अर्थाय स्वस्य परस्य वा निमित्तम् 'अनर्थाय' प्रयोजनमन्तरेण एवमेव पापकरणशीलतया 'अणियाए य |नियाएत्ति' निदानं निदा-प्राणिहिंसा नरकादिदुःखहेतुरिति जानताऽपि यद्वा साधूनामाधाकर्म न कल्पते इति परिज्ञानवताऽपि यज्जी वानां प्राणव्यपरोपणं सा निदा, तनिषेधादनिदा, पूर्वोक्तपरिज्ञानविकलेन सता यत्परमाणनिवर्हणं सा अनिदेति भावार्थः, अथवा स्वार्थ | परार्थं चेति विभागेनोद्दिश्य यत् प्राणव्यपरोपणं सा निदा, तनिषेधादनिदा यत् स्वं पुत्रादिकमन्यं वा विभागेनाविविच्य सामान्येन विधीयते, अथवा व्यापाद्यस्य सत्त्वस्य हा ! धिक् सम्प्रत्येष मां मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा निदा, तद्विपरीता अनिदा, यदजानतो व्यापाद्यस्य सत्त्वस्य व्यापादनमिति ॥ तथा चाह भाष्यकृत जाणंत अजाणतो तहेव उदिसिय ओहओ वावि । जाणग अजाणगं वा वहेइ अनिया निया एसा ॥३१॥ (भा०) ___ व्याख्यातार्था, ततो निदयाऽनिदया वा यः षट्कायप्रमर्दनं करोति-पण्णां पृथिव्यादीनां कायानां प्राणव्यपरोपणं विदधाति, तत् पट्कायप्रमईनं आत्मन्नं नोआगमतो द्रव्यात्मनं ब्रुवन्ति तीर्थकरगणधराः । अथ षट्कायप्रमईनं कथं नोआगमतो द्रव्यात्मघ्नं ?, यावता भावात्मघ्नं कस्मान भवति ?, अत आह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy