________________
पिण्डनियुतेर्मलयागिरीयातिः
अधाकर्मताहेतुः
॥४१॥
व्याख्या-आधाकर्मग्राही विशुद्धेभ्यः संयमादिस्थानेभ्योऽवतीर्य 'अधः' अधोऽधोवर्तिषु हीनेषु हीनतरेषु भावेषु वर्तमानोऽधोभवस्य रत्नप्रभादिनारकरूपस्य भवस्य सम्बन्धि आयुः 'करोति' बनाति, शेषाण्यपि कर्माणि गत्यादिनामादीनि 'अधोमुखानि अधोगत्यभिमुखानि अधोगतिनयनशीलानि इत्यर्थः, 'प्रकरोति' प्रकर्षेण दुस्सहकटुकतीबानुभावयुक्ततया करोति-बध्नाति, बद्धानां च सतामाधाकर्म-A विषयपरिभोगलाम्पट्यदृद्धितो निरन्तरमुपजायमानेन 'तीव्रण तीव्रतरेण 'भावेन' परिणामेन घनकरणं यथायोगं निधत्तिरूपतया निकाचनारूपतया वा व्यवस्थापन, तथा प्रतिक्षणमन्यान्यपुद्गलग्रहणेन चय उपचयश्च, तत्र स्तोकतरा वृद्धिश्चयः, प्रभूततरा वृद्धिरुपचयः, एतेन च । व्याख्याप्रज्ञप्तिसूत्रमाचार्येणानुवर्तितं, तथा च व्याख्याप्रज्ञतावालापका-"आहाकम्म गंभुंजमाणे समणे निग्गंथे अटकम्मपगडीओ बंधइ अहे पकरेइ अहे चिणइ अहे उवचिणइ" इत्यादि । तत एवं सति
तेसिं गुरूणमुदएण अप्पगं दुग्गईऍ पवडतं । न चएइ विधारेउं अहरगतिं निति कम्माइं ॥ १०२ ॥
व्याख्या-'तेषाम् ' अधोभवायुरादीनां कर्मणां 'गुरूणां ' अधोगतिनयनस्वभावतया गुरूणीव गुरूणि तेषाम् , 'उदयेन' विपाकवेदनानुभवरूपेण, विपाकवेदनानुभवरूपोदयवशादित्यर्थः, दुर्गतौ प्रपतन्तमात्मानं 'विधारयितुं' निवारयितुम् आधाकर्मग्राही न शक्नोति यतोऽतः कर्माणि अधोभवायुरादीनि उदयप्राप्तानि बलाद् 'अधरगति' नरकादिरूपां नयन्ति, न च कर्मणां कोऽपि बलीयान् , । १ स्थित्यनुभागयोबृहत्करणमुद्वर्त्तना, तयोरेव हस्वीकरणमपवर्त्तना, उद्वर्तनाऽपवर्तनावर्जशेषसङ्कमादिकरणायोग्यत्वेन व्यवस्थापनं निधत्तिः, समस्तकरणायोग्यत्वेन व्यवस्थापन निकाचना, [सङ्कमः प्रकृतिस्थित्यनुभागप्रदेशानामन्यकर्मरूपतया स्थितानामन्यकर्मस्वरूपेण व्यवस्थापनम् , आदि-18 शब्देनोदीरणोपशमने गृह्यते ] । २ आधाकर्म भुजानः श्रमणो निम्रन्योऽष्टौ कर्मप्रकृतीबध्नाति अबः प्रकरोति अधश्चिनोति अध उपचिनोति ।
॥४१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org