SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उक्तं च–“छट्ठाणगणवसाणे अन्नं छट्ठाणयं पुणो अन्नं । एवमसङ्खा लोगा छटाणाणं मुणेयव्वा ॥१॥” इत्थंभूतानि चासङ्खयेयलोकाकाशप्रदेशप्रमाणानि षट् स्थानकानि संयमश्रेणिरुच्यते, तया चाह-'छटाणा उ असंखा संजमसेढी मुणेयव्वा' । तथा 'लेसा'त्ति कृष्णादयो लेश्याः, स्थितिविशेषा उत्कृष्टानां सर्वोत्कृष्टानां सातावेदनीयप्रभृतीनां विशुद्धप्रकृतीनां सम्बन्धिनो विशुद्धाः स्थितिविशेषा वेदितव्याः, तत एतेषां संयमस्थानादीनां सम्बन्धिषु शुभेषु स्थानेषु वर्तमानस्तद्वाहकः-आधाकर्मग्राहक आत्मानमेतेषां-संयमस्थानादीनां विशुद्धानामधोऽधस्तात्करोति ॥ यदि नाम संयमस्थानादीनामधस्तादात्मानमाधाकर्मग्राही करोति ततः किं दूषणं तस्यापतितमत आह भावावयारमाहेउमप्पगे किंचिनूणचरणग्गो । आहाकम्मग्गाही अहो अहो नेइ अप्पाणं ॥१०॥ भावानां-संयमस्थानादिरूपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु 'अवतारम् ' अवतरणमात्मनि 'आधाय' कृत्वा 'किञ्चिनूनचरणग्गो' इति इह चरणेनाग्रः-प्रधानश्चरणाग्रः, स च निश्चयनयमतापेक्षया क्षीणकषायादिरकषायचारित्रः परिगृह्यते. न च तस्य प्रमादसम्भवो नापि लौल्यम् , एकान्तेन लोलादिमोहनीयस्य विनाशात्, ततो न तस्याधाकर्मग्रहणसम्भव इति किञ्चिन्यूनग्रहणं, किञ्चिन्यूनेन चरणेनाग्रः-प्रधानः किश्चिन्यूनचरणाग्रः, स च परमार्थत उपाशान्तमोह उच्यते, अतिशयख्यापनार्थ चैतदुक्तं, ततोऽयमर्थ:किश्चिन्यूनचरणाग्रोऽपि यावदास्तां प्रमत्तसंयतादिरिति, आधाकर्मग्राही अधोऽयो-रत्नप्रभादिनरकादौ नयत्यात्मानम्, एतद्पणमाधाकर्म-|| ग्राहिणः । एतदेव भावयति बंधइ अहेभवाऊ पकरेइ अहोमहाई कम्माई। घणकरणं तिब्वेण उ भावेण चओ उवचओ य ॥ १.१॥ गो' इति इह चरणना मोहनीयस्य विनाशात, तातिशयख्यापनार्थ चैतदुक्त, त Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy