________________
अघःकर्म
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥४०॥
निर्विभागैर्भागैदितीये संयमस्थाने निर्विभागा भागा अधिकाः प्राप्यन्ते, द्वितीयस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति यावन्तो लभ्यन्ते तावत्प्रमाणेनिविभागै गैरधिकास्तृतीये संयमस्थाने निर्विभागा भागाः प्राप्यन्ते, एवं यद्यत् संयमस्थानमनन्तभागवृद्धमुपलभ्यते तत्तत्पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागे हृते सति । यात संयमस्थानमन्तभावाटमपलभ्यते तत्तापाशी यद्यल्लभ्यते तावत्प्रमाणेन तावत्प्रमाणेनानन्ततमेन भागेनाधिकमवगन्तव्यम् , असङ्खधेयभागाधिकानि पुनरेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य सत्कानां निर्विभागभागानामसख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हृते सति यद्यल्लभ्यते स सोऽसङ्खयेयतमो |भागः, ततस्तेन तेनासङ्खयेयतमेन भागेनाधिकानि असङ्ख्येयभागाधिकानि वेदितव्यानि, सङ्खयेयभागाधिकानि चैवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्योत्कृष्टेन सङ्खयेयेन भागे हृते सति यद्यल्लभ्यते स स सङ्घयतमो भागः, ततस्तेन तेन सङ्घयेयतमेन भागेनाधिकानि सङ्खचेयभागाधिकानि संयमस्थानानि वेदितव्यानि, सङ्खयेयगुणवृद्धानि पुनरेवं-पाश्चात्यस्य पाश्चात्यस्य संयमस्थानस्य ये ये निर्विभागा भागास्ते ते उत्कृष्टेन सङ्खधेयकप्रमाणेन राशिना गुण्यन्ते, गुणिते च सति यावन्तो यावन्तो भवन्ति तावत्प्रमाणानि तावत्पमाणानि स
येयगुणाधिकानि संयमस्थानानि द्रष्टव्यानि, एवमसङ्खयेयगुणधद्धानि अनन्तगुणवृद्धानि च भावनीयानि, नवरमसङ्ख्येयगुणवृद्धौ पाश्चात्यस्य संयमस्थानस्य निर्विभागा भागा असङ्ख्येयलोकाकाशप्रदेशप्रमाणेनासख्येयेन गुण्यन्ते, अनन्तगुणद्धौ तु सर्वजीवप्रमाणेनानन्तेन,
" | इत्थं च भागहारगुणकारकल्पनं मा स्वमनीषिकाशिल्पकल्पितं मंस्थाः, यत उक्तं कर्मप्रकृतिसङ्गाहण्यां षट्स्थानकगतभागहारगुणकारविचाराधिकारे-"सव्वजियाणमसंखेज्जलोग संखिजगस्स जिहस्स । भागो तिसु गुणणातिमु” इति, प्रथमाञ्च पदस्थानकादूईमुक्तक्रमेणैव द्वितीयं षट्स्थानकमुत्तिष्ठति, एवमेव च तृतीयम् , एवं षट् स्थानकान्यपि तावद्वाच्यानि यावदसङ्खयेयलोकाकाशपदेशप्रमाणानि भवन्ति,
॥४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org