________________
नानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमण पुनरपि सङ्खयेयगुणाधिकसंयमस्थानप्रसङ्गेऽसङ्खयेयगुणाधिकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तेनैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमसङ्खयेयगुणाधिकं संयमस्थानं वक्तव्यम्, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरपि एकमसंख्येयगुणाधिकं संयमस्थानं वक्तव्यम्, अमूनि चैवमसङ्खधेयगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततः पूर्वपरिपाट्या पुनरप्यसङ्खयेयगुणाधिकसंयमस्थानप्रसङ्गेऽनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव क्रमेण भूयोऽपि वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकमनन्तगुणाधिकं संयमस्थानं वक्तव्यम् , एवमनन्तगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, ततो भूयोऽपि तेषामुपरि पञ्चद्धयात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि, यत्पुनरनन्तगुणवृद्धिस्थानं तन्न प्राप्यते षट्स्थानकस्य परिसमाप्तत्वात् , इत्थंभूतान्यसङ्खधेयानि कण्डकानि समुदितानि षट्स्थानकं भवति, तथा चाह भाष्यकृत्-'संखाईयाणि उ कंडगाणि छहाणगं विणिदिदं' सुगम, अस्मिश्च षट्स्थानके पोढा वृद्धिरुक्ताः तद्यथा-अनन्तभागदृद्धिरसङ्घचेयभागवृद्धिः सङ्खधेयभागवृद्धिः सङ्खयेयगुणवृद्धिरसङ्घयेयगुणद्धिरनन्तगुणवृद्धिश्च, तत्र यादृशोऽनन्ततमो भागोऽसङ्खयेयतमः सङ्खचेयतमो वा गृह्यते यादृशस्तु सङ्खयेयोऽसख्येयोऽनन्तो वा गुणकारः स निरूप्यते-तत्र यदपेक्षयाऽनन्तभागद्धता तस्य सर्वजीवसङ्ख्याप्रमाणेन राशिना भागो ह्रियते हृते च भागे यल्लब्धं सोऽनन्ततमोभागः, तेनाधिकमुत्तरं संयमस्थानं, किमुक्तं भवति ?-प्रथमस्य संयमस्थानस्य ये निर्विभागा भागास्तेषां सर्वजीवसन्ख्याप्रमाणेन राशिना भागे हृते सति ये लभ्यन्ते तावत्प्रमाणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org