SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अधःकर्मताहेतुः पिण्डनियु-ऽङ्गालमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणा सख्याऽभिधीयते, तथा चोक्तं-" कैण्डंति इत्थ भण्णइ अंगुलभागो असंखेजो ।" तेर्मलयगि- अस्माच्च कण्डकात्परतो यदन्यदनन्तरं संयमस्थानं भवति तत्पूर्वस्मादसख्येयभागाधिकम् , एतदुक्तं भवति–पाश्चात्यकण्डकसत्क- रीयावृत्तिः चरमसंयमस्थानगतनिर्विभागभागापेक्षया कण्डकादनन्तरे संयमस्थाने निर्विभागा भागा असङ्ख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः । पराणि पुनरपि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरेकमसङ्घयेयभागाधिकं संयमस्थानं, ततो भूयोऽपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृद्धानि भवन्ति, ततः पुनरप्येकमसख्येयभागाधिकं संयमस्थानम् , एवमनन्तभागाधिकैः कण्डकपमाणैः संयमस्थानैर्व्यवहितानि असख्येयभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति, ततश्चरमादसख्येयभागाधिकात् संयमस्थानात्पराणि यथोत्तरमनन्तभागद्धानि कण्डकमात्राणि संयमस्थानानि भवन्ति, ततः परमेकं सडूख्येयभागाधिकं संयमस्थानं, ततो मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि | तेनैव क्रमेणाभिधाय पुनरप्येकं सख्येयभागाधिकं संयमस्थानं वक्तव्यम् , इदं द्वितीयं सङ्ख्येयभागाधिकं संयमस्थानं, ततोऽनेनैव क्रमेण तृतीयं वक्तव्यम्, अमूनि चैवं सङ्खयेभागाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति, तत उक्तक्रमेण भूयोऽपि सङ्खयेयभागाधिकसंयमस्थानप्रसङ्गे सङ्खधेयगुणाधिकमेकं संयमस्थानं वक्तव्यं, ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्खयेयगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूलादारभ्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि, ततः पुनरप्येकं सङ्खयेयगुणाधिकं संयमस्थानम्, अमून्यप्येवं सङ्खयेयगुणाधिकानि संयमस्था १ कण्डकमिति अत्र भण्यते अङ्गुलभागोऽसंख्येयः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy