________________
व्याख्या-इह सर्वोत्कृष्टादपि देशविरतिविशुद्धिस्थानाजघन्यमपि सर्वविरतिविशुद्धिस्थानमनन्तगुणम् , अनन्तगुणता च सर्वत्रापि षटस्थानकचिन्तायां सर्वजीवानन्तकप्रमाणेन गुणकारेण द्रष्टव्या, इयं चात्र भावना-जघन्यमपि सर्वविरतिविशुद्धिस्थानं केवलिप्रज्ञाच्छेदकेन छिद्यते, छित्त्वा छित्त्वा च निर्विभागा भागाः पृथक् क्रियन्ते, ते च निर्विभागा भागाः सर्वसङ्कल्पनया परिभाध्यमानाः-al सर्वोत्कृष्टभेदेन देशविरतिविशुद्धिस्थानगता निर्विभागा भागाः सर्वजीवानन्तकरूपेण गुणकारेण गुण्यमाना यावन्तो जायन्ते तावत्ममाणाः प्राप्यन्ते, अत्राप्ययं भावार्थः-इह किलासत्कल्पनया सर्वोत्कृष्टस्य देशविरतिविशुद्धिस्थानस्य निर्विभागा भागा दश सहस्राणि १००००, सर्वजीवानन्तकप्रमाणश्च राशिः शतं, ततस्तेन शतसङ्ख्येन सर्वजीवानन्तकप्रमाणेन राशिना दशसहस्रसङ्ख्याः सर्वोत्कृष्टदेशविरतिविशुद्धिस्थानगता निर्विभागा भागा गुण्यन्ते, जातानि दश लक्षाणि १००००००, एतावन्तः किल सर्वनवन्यात्यापि सर्वविरतिविशुद्धिस्थानस्य निर्विभागा भागा भवन्ति । सम्पति सूत्रमनुस्रियते–'तत्र' तेषु संयमस्थानादिषु वक्तव्येषु प्रथमतः संयमस्थानमुच्यते इति शेषः, 'अनन्ता' अनन्तसङ्ख्याः पाश्चात्यासत्कल्पनया दशलक्षप्रमाणा ये चारित्रपर्यायाः-सर्वजघन्य चारित्रसत्कविशुद्धिस्थानगता निर्विभागा भागाः ते समुदिताः संयमस्थानम्, अर्थात्सर्वजघन्यं भवति, तस्मादनन्तरं यद्वितीयं संयमस्थानं तत्पूर्वस्मादनन्त|भागवृद्धं, किमुक्तं भवति ?-प्रथमसंयमस्थानगतनिर्विभागभागापेक्षया द्वितीयसंयमस्थाने निर्विभागा भागा अनन्ततमेन भागेनाधिका भवन्तीति, तस्मादपि यदनन्तरं तृतीयं तत्ततोऽनन्तभागद्धम्, एवं पूर्वस्मादुत्तरोत्तराण्यनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि तावद्वक्तव्यानि यावदङ्गुलमात्रक्षेत्रासङ्ख्येयभागगतप्रदेशराशिप्रमाणानि भवन्ति, एतावन्ति च समुदितानि स्थानानि कण्डकमित्युच्यते, तथा चाह-'सङ्ख्यातीतानि' असङ्ख्येयानि तुः पुनरर्थे 'तानि' संयमस्थानानि कण्डकं भवति ज्ञातव्यं, कण्डकं नाम समयपरिभाषया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org