________________
अधःकर्मः
पिण्डनियुतेर्मलयगिरीयावृत्तिः
॥३८॥
व्याख्या-यत्किमपि 'द्रव्यम् । उपलादिकम् 'उदकादिषु' उदकदुग्धादिषु मध्ये क्षिप्तं सत् 'भारेण' स्वस्य गुरुतया अधो। जति, तथा 'जं चेति' यच्च 'सीईए त्ति निश्रेण्या रज्ज्वा वा अवतरणं पुरुषादेः कूपादौ मालादेर्वा भुवि ततः अधोऽधो वजनम-|| ताहेतुः वतरणं वा द्रव्याधःकर्म, द्रव्यस्य-उपलादेरधः-अधस्ताद्मनरूपमवतरणरूपं वा कर्म द्रव्याधाकर्मेति व्युत्पत्तेः । सम्पति भावाधःकर्मणोऽवसरः, तच्च द्विधा-आगमतो नोआगमतश्च, तत्र आगमतोऽधःकर्मशब्दार्थज्ञाता तत्र चोपयुक्तः, नोआगमत आह
संजमठाणाणं कंडगाण लेसाठिईविसेसाणं । भावं अहे करेई तम्हा तं भावहेकम्मं ॥ ९९ ॥
व्याख्या-संयमस्थानानां वक्ष्यमाणानां 'कण्डकानां सङ्ख्यातीतसंयमस्थानसमुदायरूपाणाम् , उपलक्षणमेतत् पदस्थानकानां संयमश्रेणेश्च, तथा लेश्यानां तथा सातवेदनीयादिरूपशुभप्रकृतीनां सम्बन्धिनां स्थितिविशेषाणां च सम्बन्धिषु विशुद्धेषु विशुद्धतरेषु स्थानेषु वर्तमानं सन्तं निजं 'भावम् ' अध्यवसायं यस्मादाधाकर्म भुञ्जानः साधुरधः करोति-हीनेषु हीनतरेषु स्थानेषु विधत्ते तस्मा-| चदाधाकर्म भावाधाकर्म, भावस्य–परिणामस्य संयमादिसम्बन्धिषु शुभेषु शुभतरेषु स्थानेषु वर्तमानस्य अधा-अधस्तनेषु हीनेषु हीनतरेषु स्थानेषु कर्म-क्रिया यस्मात्तद्भावाध:कर्मेति व्युत्पत्तेः॥ एनामेव गाथां भाष्यकृद् गाथात्रयेण व्याख्यानयतितत्थाणंता उ चरित्तपज्जवा होति संजमट्ठाणं । संखाईयाणि उ ताणि कंडगं होइ नायब्वं ॥ २८ ॥
॥३८॥ संखाईयाणि उ कंडगाणि छट्ठाणगं विणिदिलु । छट्ठाणा उ असंखा संजमसेढी मुणेयव्वा ॥ २९ ॥ किण्हाइया उ लेसा उक्कोसविसुद्धिठिइविसेसाओ । एएसि विसुद्धाणं अप्पं तग्गाहगो कुणइ ॥ ३० ॥ (भा०)
Jain Education interno
For Personal & Private Use Only
Jainelibrary.org