________________
भक्तिनिर्देशश्चशब्दोपादानं च यस्य साध्वर्थमपद्रावणं कृत्वा गृही स्वार्थमतिपातं करोति तत्कल्प्यं, यस्य तु गृही त्रिपातनमपि साध्वथै | विधत्ते तन्न कल्प्यमिति ख्यापनार्थम् , इत्थंभूतमौदारिकशरीराणामपदावणं त्रिपातनं च यस्य साधोरेकस्यानेकस्य वार्थाय-निमित्तं 'मन आधाय' चित्तं प्रवर्त्य क्रियते तदाधाकर्म ब्रुवते तीर्थकरगणधराः ॥ इमामेव गायां भाष्यकृद् गाथात्रयेण व्याख्यानयति
ओरालग्गहणेणं तिरिक्खमणुयाऽहवा सुहुमवज्जा । उद्दवणं पुण जाणसु अइवायविवज्जियं पीडं ॥ २५ ॥ कायवइमणो तिन्नि उ अहवा देहाउइंदियप्पाणा । सामित्तावायाणे होइ तिवाओ य करणेसु ॥ २६ ॥ हिययंमि समाहेउं एगमणेगं च गाहगं जो उ । वहणं करेइ दाया कायेण तमाह कम्मति ॥ २७ ॥ (भा.)
व्याख्या-मुगमाः, नवरं 'देहाउइंदियप्पाणे 'ति देहायुरिन्द्रियरूपास्त्रयः प्राणाः, 'सामित्ते'त्यादि, स्वामित्वे-स्वामित्वविषये |सम्बन्धविवक्षयेति भावार्थः, एवमपादाने-अपादानविवक्षया करणेषु विषये-करणविवक्षया अतिपातो भवति, यथा त्रयाणां पातनं त्रिपातनं, यद्वा-त्रिभ्यः पातनं त्रिपातनं, त्रिभिर्वा करणभूतैः पातनं त्रिपातनं, भावार्थस्तु मागेवोपदर्शितः ॥ तदेवमुक्तमाधाकर्मनाम, सम्पत्यधःकर्मनाम वक्तव्यं, तदपि चाधाकर्म चतुर्दा, तद्यथा-नामाधाकर्म स्थापनाधाकर्म द्रव्याधःकर्म भावाधाकर्म च, एतच्चाधाकर्मवत्तावद्वक्तव्यं यावन्नोआगमतो ज्ञशरीरभव्यशरीररूपं द्रव्याधःकर्म, ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्याधःकर्म नियुक्तिकृदाह
जं दव्वं उदगाइसु छूढमहे वयइ जं च भारेणं । सीईए रज्जुएण व ओयरणं दव्वहेकम्मं ॥ ९८ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org