________________
ते मेलयगि
पिण्डनियु-दारिकशरीराणां यदपद्रावणम्-अतिपातविवर्जिता पीडा, किमुक्तं भवति?-साध्वर्थमुपस्क्रियमाणेष्वोदनादिषु यावदद्यापि शाल्यादिव- आधाकर्म
नस्पतिकायादीनामतिपात:-प्राणव्युपरमलक्षणो न भवति तावदागवचिनी सर्वाऽपि पीडा अपद्रावणं, यथा साध्वर्थ शाल्योदनकृते | ताहेतुः रीयावृत्तिः
शालिकरटेर्यावद्वारद्वयं कण्डनं, तृतीयं तु कण्डनमतिपातः, तस्मिन् कृते शालिजीवानामवश्यमतिपातभावात् , ततस्तृतीयं कण्डनमतिपातग्रहणेन गृह्यते, वक्ष्यति च भाष्यकृत्-" उद्दवणं पुण जाणमु अइवायविवज्जियं पीडं" ति, उद्दवणशब्दात्परतो विभक्तिलोप आर्षत्वात् , तथा 'तिपायणं' ति त्रीणि कायवाग्मनांसि, यद्वा त्रीणि देहायुरिन्द्रियलक्षणानि पातनं चातिपातो विनाश इत्यर्थः, तत्र च । त्रिधा समासविवक्षा, तद्यथा-षष्ठीतत्पुरुषः पञ्चमीतत्पुरुषस्तृतीयातत्पुरुषश्च, तत्र षष्ठीतत्पुरुषोऽयं-त्रयाणां कायवाङ्मनसां पातनं–विनाशनं त्रिपातनम् , एतच्च परिपूर्णगर्भजपञ्चेन्द्रियतिर्यग्मनुष्याणामवसेयम्, एकेन्द्रियाणां तु कायस्यैव केवलस्य विकलेन्द्रियसम्मूछिमतिर्यमनुष्याणां तु कायवचसोरेवेति, यद्वा-त्रयाणां देहायुरिन्द्रियरूपाणां पातनं–विनाशनं त्रिपातनम्, इदं च सर्वेषामपि तियेग्मनुष्याणां परिपूर्ण घटते, केवलं यथा येषां सम्भवति तथा तेषां वक्तव्यं यथैकेन्द्रियाणां देहस्य-औदारिकस्य आयुषः-तिर्यगायूरूपस्य इन्द्रिय-|| स्य–स्पशेनेन्द्रियस्य, द्वीन्द्रियाणां देहस्यौदारिकरूपस्य आयुषस्तिर्यगायुष इन्द्रिययोश्च स्पर्शनरसनलक्षणयोरित्यादि, पञ्चमीतत्पुरुषस्त्वयं-त्रिभ्यः-कायवाङ्मनोभ्यो देहायुरिन्द्रियेभ्यो वा पातनं-च्यावनमिति त्रिपातनम्, अत्रापि त्रिभ्यः परिपूर्णेभ्यः कायवाड्मनोभ्यः पातनं गर्भजपञ्चेन्द्रियतिर्यमनुष्याणाम् एकेन्द्रियाणां तु कायादेव केवलाद् विकलेन्द्रियसंमूञ्छिमतियड्मनुष्याणां तु कायवाग्भ्यामिति, देहायुरिन्द्रियरूपेभ्यस्तु त्रिभ्यः पातनं सर्वेषामपि परिपूर्ण सम्भवति, केवलं यथा येषां सम्भवति तथा तेषां प्रागिव वक्तव्यं, तृतीयातत्पुरुषः पुनरयं-त्रिभिः कायवाङ्मनोभिविनाशकेन स्वसम्बन्धिभिः पातनं-विनाशनं त्रिपातनं, चशब्दः समुच्चये, भिन्नवि
99999分合合合合合令曾令白宫9999999令?
॥३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org