________________
ssरोप्यते, कापोत्या आश्रयो नरस्कन्धः, नरो हि पानीयानयनाय कापोती स्कन्धेन वहति, भरस्याश्रयो गन्यादिः, महाप्रमाणो हि भरो गन्व्यादिनैवानेतुं शक्यते नान्येन, तथा कुटुम्बचिन्ताया राज्यचिन्तायाश्चाश्रयः 'हृदयं' मनः, हृदयमन्तरेण चिन्ताया अयोगात् ॥ धनुर्विषये भावनामाह-'अन्तके' करहसझे धनुषः सम्बन्धिनि प्रत्यश्चाऽऽरोप्यते ततो धनुः प्रत्यञ्चाया आश्रयः, एवं शेषाणामपि यूपादीनां प्रत्याश्रयत्वं भावनीयं, तच भावितमेव ।। उक्ता द्रव्याधा, सम्पति भावाधा वक्तव्या, सा च द्विधा-आगमतो नोआगमतश्च, तत्रागमत आधाशब्दार्थपरिज्ञानकुशलः तत्र चोपयुक्तः, 'उपयोगो भावनिक्षेप ' इति वचनात् , नोआगमतस्तु भावाधा यत्र तत्र वा मनः-1 प्रणिधानं, तथाहि-भावो नाम मानसिकः परिणामः तस्य चाधान-निष्पादनं भवति मनसस्तदनुगुणतया तेन तेन रूपेण परिणमने सति नान्यथा, ततो मनाप्रणिधानं भावाधा, सा चेह प्रस्तावात्साधुदानार्थमोदनपचनपाचनादिविषया द्रष्टव्या तया यत्कृतं कर्म-ओदन|पाकादि तदाधाकर्म, तथा चाह नियुक्तिकृत्
ओरालसरीराणं उद्दवण तिवायणं च जस्सट्टा । मणमाहित्ता कीरइ आहाकम्नं तयं बेति ॥ ९७॥ व्याख्या-औदारिकं शरीरं येषां ते औदारिकशरीराः-तिर्यञ्चो मनुष्याश्च, तत्र तिर्यः-एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्ता द्रष्टव्याः, एकेन्द्रिया अपि सूक्ष्मा बादराश्च, नन्विह येऽपद्रावणयोग्यास्तियश्चस्ते ग्राह्याः, न च सूक्ष्माणां मनुष्यादिकृतमपद्रावणं सम्भवति, सूक्ष्मत्वादेव, ततः कथं ते इह गृह्यन्ते?, उच्यते, इह यो यस्मादविरतः स तदकुर्वन्नपि परमार्थतः कुर्वन्नेव अवसेयो यथा रात्रिभोजनादानवृत्तो रात्रिभोजनं, गृहस्थश्च सूक्ष्मैकेन्द्रियापद्रावणादनिवृत्तः, ततः साध्वर्थं समारम्भं कुर्वन् स तदपि कुर्वन्नवगन्तव्य इति सूक्ष्मग्रहणं, यद्वाएकेन्द्रिया बादरा एव ग्राह्या न सूक्ष्माः, तथा च वक्ष्यति भाष्यकृत्-“ओरालगाहणेणं तिरिक्खमणुयाऽहवा मुहुमवजा" तेषामौ
dalin Education International
For Personal & Private Use Only
www.jainelibrary.org