________________
पिण्डनियु- आधाकर्म तत् प्रतिश्रवणं तथा आधाकम्मभोक्तृभिः सह संवसन-संवासः तशात् शुद्धाहारभोज्यपि आधाकर्मभोजी द्रष्टव्यः, या हि || आधाकमैंतेर्मलयगि- तैः सह संवासमनुमन्यते स तेषामाधाकर्मभोक्तृत्वमप्यनुमन्यते, अन्यथा तैः सह संवसनमेव नेच्छेत् , अन्यच्च संवासवशतः कदाचिदा, कार्थिकानि रीयावृत्तिः धाकर्मगतमनोज्ञगन्धाघ्राणादिना विभिन्नचित्तः सन् स्वयमप्याधाकर्मभोजने प्रवर्तेत, ततः संवास आधाकर्मदोषहेतुत्वादाधाकर्म उक्तः ।
तन्निक्षपाश्च तथा 'अनुमोदनम् ' अनुमोदना-आधाकर्मभोक्तृप्रशंसा, साऽपि आधाकर्मसमुत्थपापनिबन्धनत्वादाधाकर्मप्रवृत्तिकारणत्वाच्च आधाकम्र्मेति उक्तं, अमीषां च प्रतिषेवणादीनामाधाकर्मत्वमात्मकर्मरूपं नाम प्रतीत्य वेदितव्यं, तथा च वक्ष्यति-' अत्तीकरेइ कंपमित्यादि। इह आधाकर्मेति शब्दार्थविचारे आधया कर्म आधाकर्मेत्युक्तं, साऽपि चाधा नामादिभेदाच्चतुर्दा, तद्यथा-नामाधा स्थापनाधा द्रव्याधा भावनाधा च, तत्र नामाधा स्थापनाधा द्रव्याधाऽपि च आगमतो नोआगमतश्च ज्ञशरीररूपा भव्यशरीररूपा चैषणेव भावनीया, ज्ञशरीरभव्यशरीरव्यतिरिक्तां तु द्रव्याधामभिधित्सुराह
धणुजुयकायभराणं कुडंबरज्जधुरमाइयाणं च । खंधाई हिययं चिय दव्वाहा अंतए धणुणो ॥ ९६॥
व्याख्या-इह द्रव्याधायां विचार्यमाणायामाधाशब्दोऽधिकरणप्रधानो विवक्ष्यते आधीयतेऽस्यामित्याधा, आश्रय आधार इत्यनाजन्तरं तत्र 'धणु 'त्ति धनुः चापं तदाधा-आश्रयः प्रत्यञ्चाया इतिसामर्थ्याद्गम्यते, 'यूपः' प्रतीत:, 'कायः' कापोती यया पुरुषाः स्कन्धा
रूढया पानीयं वदन्ति 'भरा' यवसादिसमूहः, तथा 'कुटुम्ब' पुत्रकलत्रादिसमुदायः, 'राज्यं' प्रतीतं, तयोः धूः-चिन्ता आदिशब्दान्महाजनधूःप्रभृतिपरिग्रहः, तेषां च यथासङ्खधं द्रव्याधा-द्रव्यरूप आधारः स्कन्धादि हृदयं च, तत्र स्कन्धो बलीवदोदिस्कन्धो नरादिस्कन्धश्च परिगृह्यते, आदिशब्दान्व्यादिपरिग्रहः, तत्र यूपस्य द्रव्याधा द्रव्यरूप आश्रयो वृषभादिस्कन्धः, स हि यूपस्तत्रा
॥३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org