________________
आहाकम्मिय नामा एगट्ठा कस्स वावि किं वावि । परपक्खे य सपक्खे चउरो गहणे य आणाइ ॥९॥
व्याख्या-इह प्रथमत आधाकर्मिमकस्य नामान्येकार्थिकानि वक्तव्यानि, ततस्तदनन्तरं कस्यार्थाय कृतमाधाकर्म भवतीति विचारणीयं, तदनन्तरं च किस्वरूपमाधाकर्मेति विचार्य, तथा 'परपक्षः' गृहस्थवर्गः 'स्वपक्षः' साध्वादिवर्गः, तत्र परपक्षनिमित्तं कृतमाधाकर्म न भवति, स्वपक्षनिमित्तं तु कृतं भवतीति वक्तव्यं, तथा आधाकर्मग्रहणविषये चत्वारोऽतिक्रमादयः प्रकारा भवन्तीति वक्तव्यं, तथा 'ग्रहणे' आधाकर्मणो भक्तादेरादाने आज्ञादयः 'सूचनात्सूत्र'मिति न्यायादाज्ञाभङ्गादयो दोषा वक्तव्याः॥ तत्रैकार्थिकाभिधानलक्षणं प्रथमं द्वारं विवक्षुराह____ आहा अहे य कम्मे आयाहम्मे य अत्तकम्मे य । पडिसेवण पडिसुणणा संवासऽणुमोयणा चेव ॥ ९५ ॥
व्याख्या-'आहा अहे य कम्मे 'त्ति अत्र कर्मशब्दः प्रत्येकमभिसम्बध्यते, चकारश्च कम्मेत्यनन्तरं समुच्चयार्थो द्रष्टव्यः, तत एवं निर्देशो ज्ञातव्यः-आधाकर्म अधःकर्म च, तत्राऽऽधाकर्मेति मागुक्तशब्दार्थम् , अधःकम्मति अधोगतिनिबन्धनं कर्म अधाकर्म, तथाहि-भवति साधूनामाधाकर्म भुञ्जानानामधोगतिः, तन्निबन्धनप्राणातिपाताद्यास्रवेषु प्रवृत्तेः, तथा आत्मानं दुर्गतिप्रपातकारणतया हन्तिविनाशयतीत्यात्मन्नं, तथा यत् पाचकादिसम्बन्धि कर्म-पाकादिलक्षणं ज्ञानावरणीयादिलक्षणं वा तदात्मनः सम्बन्धि क्रियते अनेनेति । आत्मकर्म । एतानि च नामान्याधाकर्मणो मुख्यानि सम्पति पुनः प्रतिषेवणादिभिः प्रकारैस्तदाधाकर्म भवति तान्यप्यभेदविवक्षया नामत्वेन प्रतिपादयति-पडिसेवणेत्यादि प्रतिसेव्यते इति प्रतिषेवणं, तथा आधाकर्मनिमन्त्रणानन्तरं प्रतिश्रूयते-अभ्युपगम्यते यत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org